SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ भवान्तरम् ॥४९॥ भवांश्च तादृशान् कांश्चित् , कुर्यादन्तर्मुहूर्त्तकान् । तैलध्वन्तर्मुहूत्तैश्च, स्याद् गुर्वन्तर्मुहूर्तकम् ॥५०॥ अन्तर्मुहूर्त्तमानाच, सर्वा एता जघन्यतः। प्ररूपिताः श्रुते कायस्थितयः पुरुषोत्तमैः॥५१॥ इति कायस्थितिः॥ स्थापना ॥ औदारिकं सतैजसकामणमेतद्वपुस्त्रयं ह्येषाम् । मरुतां च वैक्रियाद्यं चतुष्टयं संभवेद्धपुषाम् ॥५२॥ आर्या । इति देहाः॥मसूरचन्द्रसंस्थानं, बादराणां भुवां वपुः। जलानां स्तिबुकाकारं, सूच्योघाकृति तेजसाम् ॥५३॥ मरुतां तद् ध्वजाकारं, दैधानामपि भूरुहाम् । स्युः शरीराण्यनियतसंस्थानानीति तद्विदः ॥५४॥ इति संस्थानं । असंख्येयोऽङ्गलस्यांशः, क्षमादीनां देहसंमितिः।जघन्यादुत्कर्षतश्च, स एव हि महान् भवेत् ॥५५॥ जघन्यादुत्कर्षतश्च, वायोर्यटैक्रियं वपुः । स्यात्तदप्यमुलासंख्यभागमात्रावगाहनम् ।। ५६॥ अङ्गलासंख्यांशमानं, प्रत्येकद्रोर्जघन्यतः। उत्कर्षतो योजनानां, सहस्रं साधिकं वपुः॥ ५७ ॥ उत्सेधाङ्गुलनिष्पन्नसहस्रयोजनोन्मिते । जलाशये यथोक्ताङ्गाः, स्युर्लताकमलादयः ॥५८॥ प्रमाणाङ्गुलमानेषु, यानि वार्धिहृदादिषु । भौमान्येवाजानि तानि, विरोधः स्यान्मियोऽन्यथा ॥ ५९॥ तद्यथा-उद्वेधः क समुद्राणां, प्रमाणाङ्गुलजो महान् ?। क लघून्यजनालानि, मितान्योत्सेधिकाङ्गुलैः ॥ ६०॥ किंच-शाल्यादिधान्यजातीनां, स्यान्मूलादिषु सप्तसु । धनुःपृथक्त्वप्रमिता, गरीयस्यवगाहना ॥ ६१॥ उत्कृष्टैषां बीजपुष्पफलेषु त्वगवगाहना । पृथक्त्वमङ्गुलानां यत्, प्रोक्तं पूर्वमहर्षिभिः॥६२॥ "मूले कंदे खंधे तया य साले पवाल पत्ते य । सत्तसुवि धणुपुहुतं, अङ्गुलमो पुप्फफलबीए ॥६३॥” इति भगवत्येकविंशशनवृत्तौ, तत्सूत्रेऽपि 720020201002802020-2020009 Jain Educa t ional For Private & Personel Use Only www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy