________________
Sacc000000000202000
पि संग्रहण्यभिप्रायेण वक्ष्यमाणासु कुलकोटिसंख्यासु मतान्तरं अत एवाभ्यूह्यं ॥ तथा-लक्षाणि कुलकोटीनां, षोडशोक्तानि तात्त्विकैः। केवलं पुष्पजातीनां, तृतीयोपाङ्गदेशिभिः॥२२॥ तानि चैवं-चतस्रो लक्षकोव्योऽम्भोरुहाणां जातिभेदतः। कोरिण्टकादिजातीनां, चतस्रः स्थलजन्मनाम् ॥ २३ ॥ चतस्रो गुल्मजातीनां, जात्यादीनां विशेषतः । मधूकादिमहावृक्षजानां तत्संख्यकोटयः॥ २४ ॥ इति कुलानि ॥ मिश्रा सचित्ताऽचित्ता च, योनिरेषां भवेत्रिधा । उष्णा शीतोष्णा शीताऽग्नीन् , विना ते धुष्णयोनयः ॥२५॥ पञ्चा
प्येते विनिर्दिष्टा, जिनैः संवृतयोनयः। उत्पत्तिस्थानमेतेषां, स्पष्टं यन्नोपलभ्यते ॥ २६ ॥ इति योनिसंवृतशत्वादि ॥ द्वाविंशतिः सहस्राणि, वर्षाणामोघतो भवेत् । पृथ्वीकायस्थितियेष्ठा, विशेषस्तत्र दर्यते ॥२७॥ एकं
वर्षसहस्रं स्यात्, स्थितिज्येष्ठा मृदुक्षितेः । द्वादशाब्दसहस्राणि, कुमारमृत्तिकास्थितिः ॥ २८ ॥ चतुर्दश सहस्राणि, सिकतायास्तु जीवितम् । मनःशिलायाश्चोत्कृष्टं, षोडशाब्दसहस्रकाः॥ २९ ॥ अष्टादश सह-18 स्राणि, शर्कराणां गुरुस्थितिः। द्वाविंशतिः सहस्राणि, स्यात्साऽइमादिखरक्षितेः॥३०॥ सप्त वर्षेसहस्राणि, ज्येष्ठा स्यादम्भसां स्थितिः। त्रयो वर्षसहस्राश्च, मरुतां परमा स्थितिः ॥ ३१॥ अहोरात्रास्त्रयोऽग्नीनां, दश। वर्षसहस्रकाः। प्रत्येकभूरुहामन्येषां तु साऽन्तर्मुहूर्त्तकम् ॥३२॥ ऊनितेऽन्तर्मुहूर्ते च, खखोत्कृष्टस्थितेः खलु। पञ्चानामप्यमीषां स्याज्येष्ठा पर्याप्ततास्थितिः॥ ३३ ॥ अन्तर्मुहर्त सर्वेषां, यतोऽपर्याप्ततास्थितिः। अन्तमु. इलें क्षिसेऽस्मिन् , स्थितयस्ताः स्युरोघतः॥ ३४॥ पञ्चानामप्यथैतेषां, जघन्यतो भवस्थितिः। अन्तर्मुहूत्त- १४
0202029202920292992032002010 Ora
को.प्र.१६
Jain Education Intational
For Private & Personal Use Only
wilm.jainelibrary.org