________________
पर्यासबादरवनस्पतय उपपातसमुद्घाताभ्यां सर्वलोकव्यापिनः स्वस्थानतो लोकासंख्येयभागे इति प्रज्ञापनावृत्तौ ॥ अपर्याप्तास्तु सर्वे स्वस्थानैः पर्याप्तसन्निभाः । उपपातसमुद्घातैस्त्वशेषलोकवर्त्तिनः ॥९४॥ नवरं वह्निकायस्त्व पर्याप्त स्तिर्यग्लोकस्य तट्टके । उपपातेन निर्दिष्टो द्वयोर्लोककपाटयोः ।। ९५ ।। तच्चैवं - आलोकान्तं दीर्घे सार्धदीपाम्बुधिद्वय विशाले । अधऊर्द्धलोकान्तस्पृशी कपाटे उभे कल्प्ये ॥ ९६३ ॥ आर्या । तयोः कपादयोस्तिर्यगलोकेऽन्त्याम्भोधिसीमनि । योजनाष्टादशशतबाहल्ये सर्वतोऽपि हि ॥ ९७ ॥ अपर्याप्तवादराने, स्थानं स्यादुपपाततः । तिर्यग्लोकं कपाटस्थमेव केऽप्यत्र मन्वते ॥ ९८ ॥ त्रिधाऽवादरपर्याप्तास्तेजस्कायिकदेहिनः । स्युरेकभविका बद्धायुषश्चाभ्युदितायुषः ॥ ९९ ॥ तत्र येऽनन्तरभवे, उत्पत्स्यन्तेऽग्निकायिषु । अपर्याप्तवादरेषु, त एकभविकाः स्मृताः ॥ २०० ॥ ये तु पूर्वभवसत्कतृतीयांशादिषु ध्रुवम् । बद्धस्थूलापर्यासाध्यायुष्का बद्धायुपञ्च ते ॥ १ ॥ ये तु पूर्वभवं त्यक्त्वा, साक्षादनुभवन्ति वै । स्थूलापर्याप्तवथायुस्ते भवन्त्युदितायुषः ॥ २ ॥ तत्रैकभविका बद्धायुषञ्च द्रव्यतः किल । स्थूला पर्याप्तान्यायुषः स्युर्भावतस्तूदितायुषः ॥ ३ ॥ अत्र च - द्रव्यतो बादरापर्याप्ताग्निभिर्न प्रयोजनम् । स्थूलापर्याप्ताग्नयो ये, भावतस्तैः प्रयोजनम् ॥ ४ ॥ ततश्च यद्यप्युक्तकपाटाभ्यां तिर्यग्लोकाच्च ये बहिः । उदितबादरापर्यासान्यायुष्का भवन्ति हि ॥ ५ ॥ तेऽप्युच्यन्ते तथात्वेन, ऋजुसूत्रनयाश्रयात् । तथापि व्यवहारस्य, नयस्याश्रयणादिह ॥ ६ ॥ ये स्वस्थान समश्रेणिकपाटद्वयसंस्थिताः । स्वस्थानानुगते ये च, तिर्यग्लोके प्रविष्टकाः ॥ ७ ॥ त एव व्यपदिश्यन्तेऽपर्याप्तवादानयः । शेषाः
Jain Educatiomational
For Private & Personal Use Only
www.jainelibrary.org