________________
द्रिप्राग्भारविजयादिषु ।। ७३ ॥ वक्षस्कारवर्षशैलजगतीवेदिकादिषु । द्वारद्वीपसमुद्रेषु, पृथिवीकायिकोद्भवः ॥७४॥ चतुर्भिः कलापकं ॥ इति पृथ्वीकायस्थानानि ॥ खस्थानतोऽम्बुकायानां, स्थानान्युक्तानि सूरिभिः। घनोदधिवलयेषु, घनोदधिषु सप्तसु ॥७५ ॥ अधः पातालकुम्भेषु, भवनेष्वासुरेषु च । ऊर्द्धलोके विमानेषु, खर्गपुष्करणीषु च ॥७६॥ तिर्यग्लोके च कूपेषु, नदीनदसरस्सु च । निझरोज्झरवापीषु, गर्ताकेदारपंक्तिषु ॥ ७७॥ जलाशयेषु सर्वेषु, शाश्वताशाश्वतेषु च। द्वीपेषु च समुद्रेषु, बादराप्कायसंभवः ॥ ७८ ॥ चतुर्भिः कलापकं ॥ इत्यप्कायस्थानानि ॥ स्वस्थानतोऽग्निकायानां, स्थानमाहुर्जिनेश्वराःनरक्षेत्रं द्विपाथोधिसार्धद्वीपदयात्मकम्॥७९॥ तत्रापि-काले युगलिनाम (नांना) निः, काले च बिलवासिनाम् । विदेहेष्वेव सर्वासु (स्व) कर्मभूषु ततोऽन्यदा ॥८०॥ किंच-ऊद्धोधोलोकयो यं, तिर्यग्लोकेऽप्यसो भवेत् । सदा विदेहे भरतैरवतेषु ।। ||च कहिंचित् ॥ ८१॥ पाकदाहादिसंतापं, तनुते नरकेषु यः । स नाग्निः किंतु तत्तुल्यास्ते विकुन्ति पुद्गलान् ॥८२॥ या चोष्णवेदना तेषु, श्रूयतेऽत्यन्तदारुणा । पृथिव्यादिपुद्गलानां, परिणामः स तादृशः॥८३ ॥ तथोक्तं-"ननु सप्तस्वपि पृथ्वीषु तेजस्कायिकवर्जपृथ्वीकायिकादिस्पर्शो नारकाणां युक्तः,तेषां तासु विद्यमानत्वात्, तेजस्कायस्पर्शस्तु कथं १, बादरतेजसां समयक्षेत्र एव सद्भावात्, सूक्ष्मतेजसां पुनस्तत्र सद्भावेऽपि स्पर्शनेन्द्रियाविषयत्वादिति, अत्रोच्यते, इह तेजस्कायिकस्येव परमाधार्मिकनिर्मितज्वलनसहशवस्तुनः स्पर्श-1 स्तेजस्कायिकस्पर्श इति व्याख्येयं, न तु साक्षात्तेजस्कायिकस्यैव, अथवा भवान्तरानुभूततेजस्कायिकपर्या
Jain Educa
t ional
For Private & Personel Use Only
IYw.jainelibrary.org