________________
लोक. द्रव्य. १५ सर्गः
11 66 11
Jain Education
जातिफलाद्यपि ॥ ६० ॥ मूलादयस्ते सप्तापि, नानावर्णा भवन्त्यतः । गुणिताः पञ्चभिर्वर्णैः, पञ्चत्रिंशद्भवन्ति हि ॥ ६१ ॥ दुर्गन्धाभावतः श्रेष्ठगन्धेनैकेन ताडिताः । ते पञ्चत्रिंशदेव स्युरेकेन गुणितं हि तत् ॥ ६२ ॥ नानारसाश्च ते सर्वे, ततः पञ्चरसाहताः । संजातः शतमेकं ते, पञ्चसप्ततिसंयुतम् ॥ ६३ ॥ स्पर्शास्तु यद्यप्यष्टापि, संभवन्त्येव वस्तुतः । तथाप्येषां प्रशस्तत्वाद्गृह्यन्ते तेऽपि तादृशाः ॥ ६४॥ तलघूष्णमृदुस्निग्धैः, स्पर्शेरते। चतुर्गुणाः । शतानि सप्त जातानि गन्धाङ्गानां दिशाऽनया ॥ ६५ ॥ उक्तं च जीवाभिगमवृत्तौ - "मूलतयकट्ठनिज्जासपत्तपुप्फफलमाइ गन्धंगा । वण्णादुत्तरभेया गन्धंग सया मुणेयवा ।। ६६ ।। " सूत्रालापश्च - “कति णं भंते ! गंधंगा प० १, गो० 1 सत्त गंधंगा सत्त गंधंगसया प०" इत्यादि । एवं वह्नयादिसूत्रालापा अपि वाच्याः । लोकैश्च शून्य सप्तांकहस्ताश्वसूर्यैदुवसुबह्रयः । एतत्संख्याङ्कनिर्दिष्टो वनभारः प्रकीर्त्तितः | ( ३८११७२९७० ) ॥ ६७ ॥ पाठान्तरे च- रामो वसवश्चन्द्रः सूर्यो भूमिस्तथैव च । मुनिः शून्यं समादिष्टं, भारसंख्या निगद्यते ( ३८१११७० ) ॥ ६८ ॥ एकैकजातेरेकैकपत्रप्रचयतो भवेत् । प्रोक्तसंख्यैर्मणैर्भारस्ते त्वष्टादश भूरुहाम् ॥ ६९ ॥ तथा चत्वारोऽपुष्पका भारा, अष्टौ च फलपुष्पिताः । स्युर्वल्लीनां च षड् भाराः, शेषनागेन भाषितम् ॥ ७० ॥ इत्याद्युच्यते । इति बादराणां भेदाः ॥ प्रसिद्धाः सप्त याः पृथ्व्यः, वसुमत्य|ष्टमी पुनः । ईषत्प्राग्भाराभिधा स्यात्तासु स्वस्थानतोऽष्टसु ॥ ७१ ॥ अधोलोके च पातालकलशावलिभित्तिषु । भवनेष्वसुरादीनां नारकावसथेषु च ॥ ७२ ॥ ऊर्द्ध लोके विमानेषु विमानप्रस्तटेषु च । तिर्यग्लोके च कूटा
For Private & Personal Use Only
मूलस्कन्धादिमेदाः भारमानं च
२०
२५
11 66 11
२८
Jainelibrary.org