________________
तथा। भवन्त्येकस्य जीवस्य, पर्वाक्षिपरिमोटकाः॥४७॥ तत्राक्षि प्रोच्यते ग्रन्थिः, प्रतीतं पर्व सर्वतः। चक्राकार पर्वपरिवेष्टनं परिमोटकः ॥४८॥ पत्राणि प्रत्येकमेषामेकजीवाश्रितानि वै । पुष्पाण्यनेकजीवानि, प्रोक्तानि 8 परमर्षिभिः॥४९॥ फलेषु चैषामयं विशेषः-पुष्पफलं कालिङ्गं तुम्बं चिर्भटमथ त्रपुषसंज्ञम् । घोषातकं | पटोलं तिन्दूकं चैव तेन्दूषम् ॥ ५० ॥ आर्या ॥ एतेषां च-वृन्तगर्भकटाहानामेको जीवः समर्थकः । पृथग्जीवानि पत्राणि, बीजानि केसराण्यपि ॥५१॥ एतच सर्वमर्थतः कचित्पाठतश्च प्रायः प्रज्ञापनागतमेव, श्रीहेमचन्द्रसूरिभिश्चाभिधानचिंतामणावित्युक्तं-"कुरण्टाद्या अग्रवीजा, मूलजास्तूत्पलादयः। पर्वयोनय इक्ष्वाद्याः, स्कन्धजाः सल्लकीमुखाः॥५२॥ शाल्यादयो बीजरूहाः संमूर्छजास्तृणादयः । स्युर्वनस्पतिकायस्य, षडेता मूलजातयः॥५३॥” इमर्थतः प्रथमाङ्गेऽपि दशवैकालिकेऽपि, तथा जीवाभिगमे तु-चतस्रो मुख्य-18 वयः स्युस्तावच्छताश्च तद्भिदः । ख्याता मुख्यलता अष्टौ, तावच्छताश्च तद्भिदः॥५४॥ नामग्राहं तु ता नोक्ताः, प्राक्तनैरपि पण्डितैः । ततो न तत्र दोषो नस्तत्पदव्यनुसारिणाम् ॥५५॥ त्रयो हरितकायाः स्युर्जलस्थलोभयोद्भवाः । भेदाः शतानि तावन्ति, तद्वान्तरभेदजाः॥५६॥ सहस्रं वृन्तबद्धानि, वृन्ताकादिफलान्यथ । सहस्रं नालबद्धानि, हरितेष्वेव तान्यपि ॥५७॥ किंच-मूलत्वकाष्ठनिर्यासपत्रपुष्पफलान्यपि । गन्धा
भेदाः सप्तामी, जिनैरुक्ता वनस्पती ॥ ५८॥ मूलमौशीरवालादित्वप्रसिद्धा तजादिका । काष्ठं च काकतु॥ण्डादि, निर्यासो घनसारवत् ॥ ५९॥ पत्रं तमालपत्रादि, प्रियडूग्वादिसुमान्यपि । ककोलैलालवङ्गादि, फले
हवाः । भेदाः शतानि तावात, पि॥७॥ किंच-मूलत्वकाष्ठानाजादिका । काष्ठं च काकतु-
१४
Jain Educa
t ional
For Private & Personal Use Only
ANw.jainelibrary.org