SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Jain Educat कचम्पकलता, नागपद्मलता अपि । अतिमुक्तकवासन्तीप्रमुखाः स्युर्लता इमाः ॥ २१ ॥ एकैव शाखा यत्स्कन्धे, महत्यूर्द्ध विनिर्गता । नैवान्यास्तादृशः स स्याल्लताख्यश्वम्पकादिकः ॥ २२ ॥ कूष्माण्डी त्रपुषी तुम्बी, कालिङ्गी चिर्भटी तथा । गोस्तनी कारवेल्ली च, वल्लयः कर्कोटकादिकाः ॥ २३ ॥ इक्षुवंशो वीरणानि, इक्कड: शर इत्यपि । वेत्रो नडश्च काशश्च पर्वगा एवमादयः ॥ २४ ॥ दूर्वादर्भार्जुनैरण्डाः कुरुविन्दकरोहिषाः । सुकल्यास्यं क्षीरबिसमित्याद्यास्तृणजातयः ॥ २५ ॥ पूगखर्जूरसरला, नालिकेर्यश्च केतकाः । तमालनालकन्दल्य, इत्याद्या वलयाभिधाः ॥ २६ ॥ आर्यकदमनकमरुबकमण्डूकी सर्षपाभिधौ शाकौ । अपि तण्डुलीयवास्तुकमित्याद्या हरितका ज्ञेयाः ॥ २७ ॥ आर्या ॥ औषध्यः फलपाकान्तास्ताः स्फुटा धान्यजातयः । चतुर्विंशतिरुक्तानि, तानि प्राधान्यतः किल ॥ २८ ॥ तथाहि - "धन्नाइं चउवीसं जव गोहुम सालि वीहि सहिका । कोदव अणुया कंगू रालयतिलमुग्गमासा य ॥ २९ ॥ अयसि हरिमंध तिउडग निष्फाव सिलंध रायमासा य । उक्खू मसूर तुबरी कुलत्थ तह घन्नय कलाया ॥ ३० ॥ " इति । रुहन्ति जलमध्ये ये, ते स्युर्जलरुहा इमे । कदम्यशैवलकशेरुकाः पद्मभिदो मताः ॥ ३२ ॥ कुहणा अपि बोद्धव्या, नामान्तर तिरोहिताः । स्फुटा देशविशेषेषु, चतुथपांगदर्शिताः ॥ ३३ ॥ तद्यथा - " से किं तं कुहणा १, कुहणा अणेगविहा पण्णत्ता, तं०-आए काए कुहणे कुण्णके देवहलिया सप्पाए सज्जाए सत्ताए वंसीणहिया कुरुए, जे यावण्णे तहपगारा सेत्तं कुहणा" इत्यादि । गुच्छादीनां च मूलाया, अपि षट् संख्यजीवकाः । सूत्रे हि वृक्षमूलादेरेवोक्ताऽसंख्यजीवता ॥ ३४ ॥ तथोक्तं ational For Private & Personal Use Only ५ १० १४ www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy