________________
लोक. द्रव्य. ५ सर्गः
॥ ८६ ॥
स्थानेषु जीवाः समुत्पद्यन्ते, ते च तत्रोत्पद्यमाना वृक्षयोनिका वृक्षव्युत्क्रमाश्चोत्पद्यन्ते” मूलं स्याद्भूमिसंबद्धं, तत्र कन्दः समाश्रितः । तत्र स्कन्ध इति मिथो, बीजान्ताः स्युर्युताः समे ॥ ७ ॥ अतः पृथ्वीगतरसमाहरन्ति समेऽ| प्यमी । यावत्फलानि पुष्पस्थं, बीजानि फलसंगतम् ॥८॥ श्रावणादिचतुर्मास्यां प्रावृड्वर्षासु भूरुहः । सर्वतो बहुलाहारा, अपां बाहुल्यतः स्मृताः॥९॥ ततः शरदि हेमन्ते, क्रमादल्पाल्प भोजिनः । यावद्वसन्तेऽल्पाहारा, ग्रीष्मेऽत्यन्तमिताशनाः ॥ १० ॥ यत्तु ग्रीष्मेऽपि द्रुमाः स्युर्दलपुष्पफलाद्भुताः । तदुष्णयोनिजीवानामुत्पादात्तत्र भूयसाम् ॥ ११ ॥ इति भग० शत० ७ ० ३ ॥ ननु च - मूलादयो दशाप्येवं, यदि प्रत्येकदेहिभिः । जाता अनेकैस्तत्तस्मिन्नेक मूलादिधीः कथम् ? ॥ १२ ॥ अत्रोच्यते-श्लेषणद्रव्यसंमिश्रैर्घटितानेकसर्षपैः । भूरिसर्षपरूपाऽपि, | वर्त्तिरेकैव भासते ॥ १३ ॥ यथा ते सर्षपाः सर्वे, खखमानाः पृथक पृथक् । वर्त्तेर्बुद्धिं सृजन्तोऽपि स्थिताः खस्वावगाहनाः ॥ १४ ॥ तथा प्रत्येकजीवास्ते, पृथक स्वस्ववपुर्भूतः । सृजत्येकत्र मिलिता, एकमूलादिवासनाम् ॥ १५ ॥ युग्मम् । इह यद् द्वेषरागाभ्यां संचितं पूर्वजन्मनि । हेतुरेकत्र संबन्धे, तत्कर्म श्लेषणोपमम् ॥ १६ ॥ कृतैवंविधकर्माणो, जीवास्ते सर्षपोपमाः । मूलादि वर्त्तिस्थानीयमितिदृष्टान्तयोजना ॥ १७ ॥ तिलशष्कुलिका पिष्टमयी तिलविमिश्रिता । अनेकतिलजातापि, यथैका प्रतिभासते ॥ १८ ॥ इहापि दृष्टान्तयोजना प्राग्वत् ॥ अथ गुच्छादयः - वृन्ताकी बदरी नीली, तुलसीकरमर्द्दिकाः । यावासाघाडनिर्गुड्य, इत्याद्या गुच्छजातयः ॥ १९ ॥ मल्लिकाकुन्दकोरिण्टयूथिकानवमल्लिकाः । मुद्गरः कणवीरश्च, जात्याद्या गुल्मजातयः ॥ २० ॥ अशो
Jain Educational
For Private & Personal Use Only
वृक्षगुच्छा. दिभेदाः
२०
२५
॥ ८६ ॥
२८
www.jainelibrary.org