SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ न्याचदन्यदपि तादृशम् ॥ ९५॥ यत्र मूलस्कन्धकन्दशाखासु दृश्यते स्फुटम् । त्वचा तनीयसी काष्ठात्, सा त्वक् प्रत्येकजीविका ॥ ९६ ॥ तस्य द्वादश भेदाः स्युः, प्रत्येकस्य वनस्पतेः । यथाप्रसिद्धि तान् कांश्चिदर्शयामि समासतः ॥ ९७॥ वृक्षा गुच्छा गुल्मा लताश्च वयश्च पर्वगाश्चैव । तृणवलयहरीतकौषधिजलरुहकुहणाश्च विज्ञेयाः॥९८॥ आर्या ॥ वृक्षास्तत्र द्विभेदाः स्युः, फलोद्यद्वीजभेदतः। एकबीजफलाः केचिद्, भूरिबीजफलाः परे ॥ ९९ ॥ अंकोठजम्बूनिम्बाम्राः, प्रियालसालपीलवः । सल्लकीशैलुबकुलभिल्लातकबिभीतकाः॥१०॥ हरीतकीपुत्रजीवाः, करजारिष्टर्किशुकाः । अशोकनागपुन्नागप्रमुखा एकबीजकाः ॥१॥ कपित्थतिन्दुकप्लक्षधवन्यग्रोधदाडिमाः । कदम्यकुटजा लोध्रः, फणसश्चन्दनार्जुनाः॥२॥ काकोदुम्बरिका मातुलिङ्गस्तिलकसंज्ञकः। सप्तपर्णदधिपर्णप्रमुखा बहुबीजकाः॥३॥ प्रत्येकमेषां वृक्षाणां, प्रत्येकासंख्यजीवकाः । मूलकन्दस्कन्धशाखात्वक्प्रवाला उदीरिताः ॥४॥ पुष्पाण्यनेकजीवानि, एकैकोऽङ्गी दले दले । प्रत्येकमेकजीवानि, बीजानि च फलानि च ॥५॥ एकः पूर्णतरुस्कंधव्यापी भवति चेतनः। मूलादयो दशाप्यस्य, भवन्त्यवयवाः किल ॥६॥ तथोक्तं सूत्रकृताङ्गवृत्तौ श्रुतस्कन्ध०२ अध्या०३-"आहावर"मित्याद्यालापकस्यार्थःअथापरमेतदाख्यातं, यदाख्यातं तद्दर्शयति-इह-अस्मिन् जगत्येके न तु सर्वे, तथाकर्मोदयवर्तिनो वृक्षयोनिकाः सत्त्वा भवन्ति, तदवयवाश्रिताश्चापरे वनस्पतिरूपा एव प्राणिनो भवति, तथाहि-यो टेको वनस्पतिजीवः सर्ववृक्षावयवव्यापी भवति, तस्य चापरे तदद्वयवेषु मूलकन्दस्कन्धत्वक्शाखाप्रवालपुष्पपत्रफलबीजभूतेषु दशसु Checcceleteletoeineecretstreeeeee कजीवानिलकन्दस्कन्धशाखात्वभवालामूखा बहुबीजकाः ॥ मयन्दनार्जुनाः॥२॥ काको । तथोक्तं सूत्रका एकः पूर्णतरुण्यनेकजीवानि, पद Jain Educat i onal For Private & Personel Use Only Surjainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy