________________
लोक. द्रव्य. ५ सर्गः
॥ ८४ ॥
केन, जीवेन खायुषः क्षयात् । यद् बीजं स्यात्परित्यक्तमथ बीजस्य तस्य च ॥ ६२ ॥ अम्बुका लक्ष्मादिरूपसामग्रीसंभवे सति । स एव जातु बीजाङ्गी, बद्धतादृशकर्मकः ॥ ६३ ॥ उत्पद्यते तत्र बीजेऽन्यो वा भूकायिकादिकः । निबद्धमूलादिनामगोत्रकर्मात्र जायते ॥ ६४ ॥ स एव निर्वर्त्तयति, मूलं पत्रं तथाऽऽदिमम् । मूलप्रथमपत्रे च तत एवैककर्तृके ॥ ६५ ॥ यदागमः - "जोऽविय मूले जीवो सोविय पत्ते पढमयाए "त्ति, अत्राह परः - नन्वेवमादिमदले, मूलजीवकृते सति । उद्गच्छत्किशलेऽनन्तकायिकत्वं विरुध्यते ॥ ६६ ॥ यदागमः" सवोऽवि किसलओ खलु उग्गममाणो अनंतओ भणिओ"त्ति, अत्रोच्यते-बीजे मूलतयोत्पद्य, बीजजी - वोऽथवापरः । करोत्युत्सूनतावस्थां ततोऽनन्तरभाविनीम् ॥६७॥ ध्रुवं किशलयावस्थां सृजन्त्यनन्तजन्तवः । ततञ्च तेषु जीवेषु, विनष्टेषु स्थितिक्षयात् ॥ ६८ ॥ स एव मूलजीवस्तां, तनुमनन्तदेहिनाम् । समाप्यायखांगतया, तावद्वर्द्धयते किल ॥ ६९ ॥ यावत्प्रथमपत्रं स्यात्ततश्च न विरुध्यते । किश लेऽनन्त कायित्वमेककर्तृकतापि च ॥ ७० ॥ चतुर्भिः कलापकं । अन्ये तु व्याचक्षते - इह बीजसमुत्सूनावस्थैव प्रतिपाद्यते । प्रथमपत्रशब्देन, तस्याः प्रथममुद्भवात् ॥ ७१ ॥ ततश्च मूलं बीजसमुत्सूनावस्था चेत्येककर्तृके । अनेन चैवं नियमो, लभ्यते सूत्र - सूचितः ॥ ७२ ॥ एकजीवकृते एव, मूलं चोत्सूनतादशा । नावश्यं मूलजीवोत्थं, शेषं किशलयादिकम् ॥ ७३ ॥ ततश्चोभयमप्यविरुद्धं - जोऽविय मूले जीवो सोऽविय पत्ते पढमयाएत्ति ॥ सवोऽवि किसलओ खलु उग्गममाणो अनंतओ भणिओ ॥ ७४ ॥ इति च एतच्चार्थतः प्रज्ञापनावृत्तौ, आचाराङ्गवृत्तावपि तथैव
Jain Educatinational
For Private & Personal Use Only
मूलप्रथमपत्रक कर्तृ
कता
२५
॥ ८४ ॥
२८
jainelibrary.org