SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ kिetsekseeketstoticestoerce जन्तुज्झितं निश्चयेनाधुना ज्ञातुं न शक्यते । ततोऽनतिशयी बीजं, सचेतनमुतेतरत् ॥५०॥ योनिमंत व्यवहरेद्यावद्ध्वस्तयोनिकम् । ध्वस्तयोनित्वजीवत्वादयोनीभूतमेव हि ॥५१॥ यन्नष्टेऽपि सजीवत्वे, योनिस्वं जातुचिद्भवेत् । परिभ्रष्टे तु योनित्वे, सजीवत्वं न संभवेत् ॥५२॥ एवं च-उत्पत्तिस्थानकं जन्तोर्यदविध्वस्तशक्तिकम् । सा योनिस्तत्र शक्तिस्तु, जन्तूत्पादनयोग्यता॥५३॥ तथोक्तं प्रज्ञापनावृत्तौ-"अथ योनिरिति किमभिधीयते ?, उच्यते, जन्तोरुत्पत्तिस्थानमविध्वस्तशक्तिकं, तत्रस्थजीवपरिणामनशक्तिसंपन्नमिति भावः" अत एव श्रुतेऽपि-यवा यवयवाश्चापि, गोधूमव्रीहिशालयः । धान्यानां श्रीजिनैरेषामुक्ता योनिस्त्रि| वार्षिकी ॥५४ ॥ कलादमाषचपलतिलमुद्गमसूरकाः । तुलस्थतुवरीवृत्तचणका वल्लकास्तथा । प्रज्ञसा योनिरे-18| तेषां, श्रीजिनैः पञ्चवार्षिकी । षट्पदी॥५५॥ लहातसीशणकङ्घकोरदूषककोद्रवाः। बीजानि मूलकानां सर्षपावरहरालकाः । प्रज्ञप्ता योनिरेतेषामागमे सप्तवार्षिकी ॥ षट्पदी ॥५६॥ इयमत्र भावना-कोष्ठकादिषु निक्षिप्यतेषां पिधानशालिनाम् । लिप्सानां मुद्रितानां चोत्कृष्टषा योनिसंस्थितिः ॥ ५७॥ तदनु क्षीयते योनिरङ्करोत्पत्तिकारणम् । भवेद्वीजमबीजं तन्नोप्तमङ्कुरितं भवेत् ॥ ५८॥ अन्तर्मुहत्तं सर्वेषामेषां योनिर्जघन्यतायत्केषांचिदचित्तत्वं, जायतेऽन्तर्मुहूर्ततः॥५९॥ परंतत्सर्वविद्वेद्यं,व्यवहारपथेतुन । व्यवहारातु पूर्वोक्तः, कालमानैरचित्तता ॥ ६०॥ इदमर्थतः पञ्चमाङ्गे प्रवचनसारोद्धारे च ॥ ततश्च-बीजे योनिभूते व्युत्क्रामति सैव जन्तुरपरो वा । मूलस्य यश्च कर्त्ता स एव तत्प्रथमपत्रस्य ॥ ६१॥ आर्या । इयमत्र भावना-बीजस्य निर्वत SainEducatihan For Private Personal use only du.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy