________________
TA
लोक. द्रव्य.दीतटभित्त्यादेः, शर्करोपलकर्कराः । सिकताः सूक्ष्मकणिकाः, उपला लघवोऽश्मकाः ॥ १२॥ शिला महान्ती
बादर५ सर्गः क्षारा भूरूषो लवणमब्धिजम् । सुवर्णरूप्यताम्रायन पुसीसकधातवः ॥ १३ ॥ वजं च हरितालश्च, हिङ्गलश्च |
व्यादिमनःशिला । प्रवालं पारदश्चापि, सौवीराभिधमञ्जनम् ॥१४॥ पटलं पुनरभ्राणां, तथा तन्मिश्रवालुका भेदाः ॥८२ ॥
अन्येऽप्येवंविधा ग्राह्या, जेयावण्णेतिवाक्यतः ॥१५॥ इत्यर्थतः प्रज्ञापनावृत्तौ ॥ इति पृथ्वीकायभेदाः॥ जल-18 भेदा जलं शुद्धं, शीतमुष्णं खभावतः । क्षारमीषदतिक्षारमम्लमीषत्तथाधिकम् ॥ १६ ॥ हिमावश्यायकरका, धूमरी क्ष्मान्तरिक्षजम् । श्मामुद्भिद्य तृणाग्रस्थं, नाम्ना हरतनूदकम् ॥ १७॥ घृतेक्षुवारुणीदुग्धोदकं तत्तद्रसा-12 ङ्कितम् । घनोदध्यादयश्चास्य, भेदा येऽन्येऽपि तादृशाः ॥ १८॥ इत्यप्कायभेदाः ॥ शुद्धाग्निरशनिवाला, स्फुलिङ्गाङ्गारविद्युतः। अलातोल्का मुर्मुराख्या, निर्घातकणकाभिधाः॥१९॥ काष्ठसंघर्षसंभूतः, सूर्यकान्तादिसंभवः । वह्निभेदा अमी ग्राह्या, ये चान्येऽपि तथाविधाः ॥ २०॥ इत्यग्निभेदाः॥प्राच्योदीच्यप्रतीचीनदाक्षिणात्या विदिग्भवाः। ऊोधासंभवा वाता, उभ्रामोत्कलिकानिलाः ॥ २१॥ गुंजा झंझाख्यः संवत्तों, वातो मण्डलिकाभिधः । घनवातस्तनुवातस्तत्रोद्धामोऽनवस्थितः ॥ २२ ॥ लहर्य इव पाथोधेर्वातस्योत्कलिकास्तु याः । रेणुकासु स्फुटव्यंग्यास्तद्वानुत्कलिकानिलः ॥ २३ ॥ गुञ्जन् सशब्दं यो वाति, स गुञ्जावात | ॥८२॥ उच्यते । झंझानिलो वृष्टियुक्तः, स्याद्वा योऽत्यन्तनिष्ठुरः॥ २४ ॥ आवर्तकस्तृणादीनां, वायुः संवर्तकाभिधः। मंडलाकृतिरामूलात्, मंडलीवात उच्यते ॥ २५ ॥ घनो घनपरीणामो, धराद्याधार ईरितः। विरल: KI २८
Jain Education
a
l
For Private sPersonal use,only
N
ainelibrary.org