________________
॥ पञ्चमः सर्गः प्रारभ्यते ॥ वर्ण्यन्तेऽथ क्रमप्राप्ता, बादरैकेन्द्रियाङ्गिनः। ते च षोढा पृथिव्यम्बुतेजोऽनिलास्तथा द्रुमाः॥१॥ प्रत्येकाः साधारणाश्च, षडप्यते द्विधा मताः। पर्याप्तापर्याप्तभेदादेवं द्वादश बादराः॥२॥ बादराख्यनामकर्मोदया ये स्थूलतां गताः । चर्मचक्षुदृश्यमाना, बादरास्ते प्रकीर्तिताः ॥३॥ तत्र च-अपर्याप्तास्त्वविस्पष्टवर्णाद्या अल्पजीवनात् । पर्याप्तानां च वर्णादिभेदैर्भेदाः सहस्रशः॥४॥ बादरा पृथिवी द्वेधा, मृदुरेका खराऽपरा । भेदाः सप्त मृदस्तत्र, वर्णभेदविशेषजाः॥५॥ कृष्णा नीलाऽरुणा पीता, शुक्लेति पश्च मृद्भिदः । षष्ठी देशविशेषोत्था, मृत्स्ना पाण्डुरिति श्रुता ॥ ६॥ नद्यादिपूरापगमे, देशे तत्रातिपिच्छिले । मृदुलक्षणा पङ्करूपा, सप्तमी पनकाभिधा ॥७॥ इत्यर्थतः प्रज्ञापनावृत्ती ।। उत्तराध्ययनवृत्तौ तु-"पांडु'त्ति पाण्ड:-पाण्डुरा, ईषच्छुक्लत्ववतीत्यर्थः, इति वर्णभेदेन षड्विधत्वमुक्तं, इह च पाण्डुरग्रहणं कृष्णादिभेदानामपि स्वस्थाने भेदान्त|रसंभवसूचकं, पनकोऽत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्तमानस्य लोके पृथ्वीवेन रूढत्वाद्भेदेनोपादान"मित्याधुक्तं । चत्वारिंशत्खरायाश्च, भेदाः प्रज्ञापिताः क्षितेः। अष्टादश मणीभेदास्तथा द्वाविंशतिः परे ॥८॥ गोमेद्यकाङ्कस्फटिकलोहिताक्षा हरिन्मणिः । षष्ठो मसारगल्लः स्यात्ससमो भुजमोचकः ॥९॥ इन्द्रनीलश्चन्दनश्च, गैरिको हंसगर्भकः। सौगन्धिकश्च पुलकस्ततश्चन्द्रप्रभाभिधः ॥१०॥ वैडूर्य जलकान्तश्च, रुचकार्कोपलाविति । खरक्ष्माया एव भेदानन्यान् द्वाविंशतिं ब्रुवे ॥ ११॥ भून
Jain Educa
t ional
For Private & Personel Use Only
jainelibrary.org