________________
सूक्ष्मापर्याप्तका इमे । असंख्येयगुणास्तेभ्यः, सूक्ष्मपर्याप्तकास्तथा (असंख्यनाः सूक्ष्मपर्याप्तकाः संख्यगुणास्ततः) ॥४१॥ इति मानं ३२॥ सूक्ष्मास्तेजस्कायिकाः स्युः, सर्वस्तोकास्ततः क्रमात् । सूक्ष्मक्षमाम्बुमरुतो, विशेषाभ्यधिकाः स्मृताः॥४२॥ असंख्येयलोकमाननभःखण्डप्रदेशकः । तुल्याः सर्वेऽप्यमी किंतु, यथोत्तराधिकाधिकाः॥४३ ॥ असंख्येयगुणाः सूक्ष्मवायुभ्यः स्युर्निगोदकाः। असंख्येयप्रमाणत्वादेतेषां प्रतिगोलकम् ॥४४॥ तेभ्योऽनन्तगुणाः सूक्ष्माः, स्युर्वनस्पतिकायिकाः। तेभ्यः सामान्यतः सूक्ष्मा, विशेषाभ्यधिकाः स्मृताः ॥४५॥ स्वस्वजातिष्वपर्याप्तकेभ्योऽसंख्यगुणा मताः । पर्याप्तका यदेतेऽन्यापेक्षयाधिकजीविनः ॥४६॥ उत्पद्यन्ते तथैकैकापर्याप्तकस्य निश्रया। पर्याप्तका असंख्येयास्ततोऽमी बहवो मताः॥४७॥ तथोक्तमाचाराङ्गवृत्तौ"सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विधा एव, किंत्वपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्र चैकोऽपर्याप्तकस्तत्र नियमादसंख्ययाः पर्याप्ताः स्यु"रित्युक्तमितिज्ञेयं । अत एवैकेन्द्रियाः स्युः, सामान्यतो विवक्षिताः। पर्याप्ता एव भूयांसो,जीवाअप्योघतस्तथा॥४८॥ इति लघ्व्यल्पबहुता ३३॥ दिशामपेक्षयाऽत्यल्पबहुतैषां न संभवेत् । अमी प्रायः सर्वलोकापन्नाः सर्वत्र यत्समाः॥४९॥ तथोक्तं प्रज्ञापनावृत्तौ-"इदं ह्यल्पबहुत्वं बाद-18 रानधिकृत्य द्रष्टव्यं, न सूक्ष्मान् , सूक्ष्माणां सर्वलोकापन्नानां प्रायः सर्वत्र समत्वात्" इति दिगपेक्षयाऽल्पबहुता, ३४। ओघतः सूक्ष्मजीवानामन्तरं यदि चिन्त्यते । अन्तर्मुहूत्तै सूक्ष्मत्वे, जघन्यं कथितं जिनैः॥५०॥ यदु-| त्पद्य बादरेषु, सूक्ष्मः संत्यज्य सूक्ष्मताम् । स्थित्वा तत्रान्तर्मुहूर्त, पुनः सूक्ष्मत्वमाप्नुयात् ॥५१॥ उत्कर्षतः कालच-
१४
Jain Education Harbona
For Private & Personel Use Only
(O
hinelibrary.org