________________
लोक. द्रव्य. ४ सर्गः
॥ ७७ ॥
| कल्प्योत्कृष्टपदमन्यगोलककल्पनात् ॥ ५० ॥ इत्येकैकनिगोदावगाहनाप्रमिते किल । क्षेत्रे भवति निष्पत्तिरेककगोलकस्य वै ॥ ५१ ॥ विवक्षितनिगोदावगाहनायास्तु येऽधिकाः । निगोदांशास्तत्प्रदेशहा निस्थित्या व्यवस्थिताः ॥ ५२ ॥ विवक्षणीयास्ते गोलकान्तरानुप्रविष्टकाः । एवं गुरूपदेशेन, ज्ञेया गोलकपद्धतिः ॥ ५३ ॥ उक्तं हि - "तत्तोचिय गोलाओ उक्कोसपयं मुहत्तु जो अण्णो । होइ निगोओ तम्मिवि अन्नो निष्फज्जह गोलो ॥५४॥ एवं निगोयमित्ते खेत्ते गोलस्स होइ निष्पत्ती । एवं निष्फज्जते लोगे गोला असं खिज्जा ॥ ५५ ॥” स्थापना, | इत्याद्यर्थतो भगवतीशतक ११ उद्देशके १० ॥" निगोदा निचिताश्चैतेऽनन्तानन्ताङ्गिभिस्तथा । निर्गच्छद्भिर्यथा नित्यं, न कोऽपि स हीयते ॥ ५६ ॥ यद्व्यावहारिकाङ्गिभ्यो, यावन्तो यान्ति निर्वृतिम् । निर्यान्ति तावन्तोऽनादिनिगोदेभ्यः शरीरिणः ॥ ५७ ॥ तथोक्तं- "सिज्झति जन्तिया किर इह संववहाररासिमज्झाओ । इंति अणाइवणस्सइमज्झाओ तत्तिआ तंमि ॥ ५८ ॥" इत्यादि प्रज्ञापनावृत्तौ ॥ अनन्तेनापि कालेन, यावन्तः स्युः शिवं गताः । सर्वेऽप्येकनिगोदैकानन्तभागमिता हि ते ।। ५९ ।। कालेन भाविनाऽप्येवमनन्ता मुक्तिगामिनः । चिन्त्यन्ते तैः समुदितास्तथापि नाधिकास्ततः ॥ ६०॥ एवं च न तादृग् भविता कालः, सिद्धाः सोपचया अपि । यत्राधिका भवन्त्येकनिगोदानन्तभागतः ॥ ६१ ॥ तथाऽऽहुः - "जइया य होइ पुच्छा जिणाण मग्गंमि उत्तरं तइया । इक्कस्स निगोअस्स य अनंतभागो उ सिद्धिगओ ॥ ६२ ॥ " निगोदेऽपि द्विधा जीवास्तत्रैके व्यावहारिकाः । व्यवहारादतीतत्वात्परे चाव्यवहारिकाः ॥ ६३ ॥ सूक्ष्मान्निगोदतोऽनादेर्निर्गता एकशोऽपि ये ।
Jain Education International
For Private & Personal Use Only
व्यवहार्यव्यहारिणः
२०
२५
॥ ७७ ॥ २७
www.jainelibrary.org