________________
लोक द्रव्य.
४ सगे: ॥७६॥
सूक्ष्मथ्यादिखरूपम्
संभवन्त्योघतो जीवे, विज्ञेयानि यथाऽऽगमम् ॥ २४ ॥ इति सामान्यतः संसारिजीवनिरूपणम् ॥ संसारिणो द्विधोक्ताः प्राक, बसस्थावरभेदतः। स्थावरास्तत्र पृथ्व्यंबुतेजोवायुमहीरुहः॥ २५॥ पञ्चामी स्थावराः स्थावराख्यकर्मोदयात्किल । हुताशमरुतौ तत्र, जिनैरुक्तौ गतित्रसौ ॥ २६ ॥ इति जीवाभिगमाभिप्रायेण, आचाराङ्गनियुक्तिवृत्त्यभिप्रायेण तु 'दुविहे'त्यादि, असा एव जीवास्त्रसजीवाः, लब्धित्रसाः गतित्रसाश्च, लब्ध्या तेजोवायू सौ इति, अन्ये च नारकादयो गतित्रसा इति तात्पर्य ॥ वनस्पतिश्च प्रत्येकः, साधारण इति द्विधा । सर्वेऽमी बादराः सूक्ष्मा, विना प्रत्येकभूरुहम् ॥ २७ ॥ एकादशैकेन्द्रियाः स्युरेवं प्रत्येकसंयुताः। अपर्याप्ताश्च पर्याप्ता, एवं द्वाविंशतिः कृताः ॥२८॥ तत्र क्षमाम्भोऽग्निपवनाः, साधारण-18 वनस्पतिः । एतेऽपर्याप्तपर्याप्ता, दशैवं सूक्ष्मदेहिनः ॥२९॥ सूक्ष्मनामकर्मयोगाद्ये प्राप्ताः सूक्ष्मतामिह । चर्मचक्षुरगम्यास्ते, सूक्ष्माः पृथ्व्यादयः स्मृताः॥ ३० ॥ सूक्ष्माः साधारणवनस्पतयो येऽत्र शंसिताः । ते |च सूक्ष्मनिगोदा इत्युच्यन्ते श्रुतकोविदैः ॥३१॥ अनन्तानामसुमतामेकसूक्ष्मनिगोदिनाम् । साधारणं |शरीरं यत्, स निगोद इति स्मृतः॥ ३२॥ तच्चैकं सर्वतद्वासिसंबंधि स्तिबुकाकृति । औदारिकं स्यात्प्रत्येकं, त्वेषां तैजसकार्मणे ॥३३॥ ते सहोच्छासनिःश्वासाः, समं चाहारकारिणः । अनन्ता अतिसूक्ष्मेऽङ्गे, सहन्ते हन्त यातनाम् ॥ ३४ ॥ तथोक्तं-"जं नरए नेरइया दुक्खं पावंति गोअमा ! तिक्खं । तं पुण निगोअजीवा अणन्तगुणियं वियाणाहि ॥ ३५॥" सूक्ष्मा अनन्तजीवात्मका निगोदा भवन्ति भुवनेऽस्मिन् । पृथ्व्यादिसर्व
॥७६॥
२८
Jain Education
al
For Private & Personel Use Only
ainelibrary.org