________________
कुञ्जरादयः॥८॥ उद्भेदजाः खञ्जनाद्याः, देवाद्याश्चौपपातिकाः । स्थावरेणैकेन युक्ता, नवधेत्यङ्गिनो मताःR 18|॥९॥ अथवा-नवधा स्थावराः पञ्च, पञ्चाक्षविकलैर्युताः । दशधा विकलै मायैः, पश्चाक्षैः संश्यसंज्ञिभिः
॥१०॥ स्थावरैर्विकलैः पञ्चेन्द्रियैश्च वेदतस्त्रिभिः । एकादश द्वादश स्युः, कायैः पर्याप्सकापरैः॥ ११॥ पर्यासापर्याप्तकैश्च, स्थावरैस्त्रिविधैस्त्रसैः । वेदभेदाद्भवन्त्येवं, त्रयोदशविधाः किल ॥१२॥ प्रागुक्ताः सप्तधा| पर्याप्तकापर्याप्तभेदतः । चतुर्दशविधा जीवाः, स्युः पञ्चदशधाप्यमी ॥ १३ ॥ पञ्चाक्षा नरतियश्चस्त्रिविधा वेद-1 भेदतः । देवा द्विधा नारकाश्चेत्येवं पञ्चेन्द्रिया नव ॥१४॥ द्विविधा बादरैकाक्षाः, पर्याप्तापरभेदतः। सूक्ष्मैकाक्षा विकलाक्षाः, स्युः पञ्चदशसंयुताः॥१५॥ तिर्यश्चः पञ्चधैकाक्षादिकाः पञ्चाक्षसीमकाः।नदेवनारकाचाष्टाप्यते पर्यासकापराः॥१६॥ इति षोडश भेदाः॥ प्रागुक्ता नवधा पञ्चेन्द्रियाश्च पश्चधैकखाः । त्रिविधा विकला एवं, स्युः सप्तदशधाऽङ्गिनः॥१७॥ प्रागुक्ता नवधा जीवाः, पर्याप्तापरभेदतः। भवन्त्यष्टादशविधा, जीवा एवं विवक्षिताः ॥ १८॥ पश्चाक्षा नवधा प्राग्वद्दशधा च परेऽगिनः । पर्याप्तान्याः स्थूलसूक्ष्मैकाक्षाः सविकलेन्द्रियाः॥१९॥ एकोनविंशतिविधा, भवन्त्येवं शरीरिणः । प्रागुक्ता दशधा पर्याप्सान्ये विंशतिधेति च ॥२०॥ स्थावरा विंशतिः सूक्ष्मान्यपर्याप्सान्यभेदतः। त्रसेन च समायुक्ता, एकविंशतिधाऽगिनः॥२१॥ पूर्वोदिताः प्रकारा ये, एकादश शरीरिणाम् । द्वाविंशतिविधाः पर्याप्सान्यभेदाद् द्विधाकृताः॥२२॥ एवं विवक्षावशतो, जीवा भवन्त्यनेकधा। जीवानामोघतः स्थानं, लोकः सर्वोऽप्युदीरितः ॥ २३ ॥ द्वाराणि पर्याप्त्यादीनि, सर्वाण्यप्यविशेषतः ।।
Jain Educa
ional
For Private
Personel Use Only
Nurjainelibrary.org