________________
प्रतिषेधात्मिका भवेत् । सप्तमी पृच्छतः कार्य, स्वीयानुमतिदानतः॥९९ ॥ कार्य यथाऽऽरभमाणः, कश्चित्कचन पृच्छति । स प्राहेदं कुरु लघु, ममाप्येतन्मतं सखे !॥१४००॥ उपस्थितेषु बहुषु, कार्येषु युगपद्यदि । किमिदानी करोमीति, कश्चित्कश्चन पृच्छति ॥१॥ स प्राह सुन्दरं यत्ते, प्रतिभाति विधेहि तत् । भाषाऽनभिगृहीताख्या, सा प्रज्ञप्ता जिनेश्वरैः ॥२॥ अभिगृहीता तत्रैव, नियतार्थावधारणम् । यथाऽधुनेदं कर्त्तव्यं, न कर्त्तव्यमिदं पुनः॥३॥ अनेकार्थवादिनी तु, भाषा संशयकारिणी । संशयः सिंधवस्योक्तौ, यथा लवण-18 वाजिनोः॥४॥ व्याकृता तु भवेद्भाषा, प्रकटार्थाभिधायिनी । अव्याकृता गभीरार्थाऽथवाऽव्यक्ताक्षराश्चिता, ॥५॥ आद्यास्तिस्रो दशविधास्तुर्या द्वादशधा पुनः। द्विचत्वारिंशदित्येवं, भाषाभेदा जिनैः स्मृताः॥६॥ स्तोकाः सत्यगिरः शेषास्त्रयोऽसङ्ख्यगुणाः क्रमात् । अभाषकाश्चतुर्योऽपि, स्युरनन्तगुणाधिकाः ॥७॥ इति योगा: ३१॥ के के जीवाः कियन्तः स्युरितिदृष्टान्तपूर्वकम् । निरूपणं यत्तन्मानमित्यत्र परिकीतितम् ॥८॥३२॥ परस्परं कतिपयसजातीयव्यपेक्षया । वक्ष्यते याऽल्पबहुता, साऽत्र ज्ञेया कनीयसी ॥९॥३३। भूयांसो दिशि कस्यां के, जीवाः कस्यां च केऽल्पकाः। एवंरूपाऽल्पबहुता, विज्ञेया दिगपेक्षया ॥१०॥३४॥ प्राप्य पृथ्व्यादित्वमङ्गी, जघन्योत्कर्षतः पुनः। कालेन यावताऽऽनोति, तद्भावं स्यात्तदन्तरम् ॥११॥३५॥ विवक्षितभवात्तुल्येऽतुल्ये |च यद्भवान्तरे । गत्वा भूयोऽपि तत्रैव, यथासंभवमागतिः॥१२॥ जघन्यादुत्कर्षतश्च, वारानेताबतो भवेत् । इत्यादि यत्रोच्यतेऽसौ, भवसंवेध उच्यते॥१३॥३६। सर्वजातीयजीवानां, परस्परव्यपेक्षया । वक्ष्यते याऽल्पब
98288900982985288282009
नयावतालपबहतासात्र शेयोमानमित्यत्रणाधिकाः
Jain Educati
o
na
For Private & Personel Use Only
Mainelibrary.org