________________
लोक द्रव्य. ३ सर्गः
३१ योगेषु भाषाभेदाः
॥७४॥
राशी तान् जीवतो बहून् । दृष्ट्वाऽल्पांश्च मृतान् जीवराश्युक्ती जीवमिश्रिता ॥ ८४॥ तत्रैव च मृतान् भूरीन् , दृष्ट्वा स्वल्पांश्च जीवतः। अजीवराशिरित्येवं, वदतोऽजीवमिश्रिता ॥ ८५॥ एतावन्तोऽत्र जीवन्त, एतावन्तो मृता इति । तत्रानिश्चित्य वदतो, जीवाजीवविमिश्रिता ॥८६॥ अनन्तकायनिकर, दृष्ट्वा प्रत्येकमिश्रितम् । अनन्तकायं तं सर्व, वदतोऽनन्तमिश्रिता ॥ ८७॥ एवं प्रत्येकनिकरमनन्तकायमिश्रितम् । प्रत्येकं वदतः सर्व, भवेत्प्रत्येकमिश्रिता ॥ ८८॥ अद्धा कालः स च दिनं, रात्रिर्वा परिगृह्यते । यस्यांशमिश्रिता साऽद्धामिश्रिता जायते यथा ॥ ८९॥ कञ्चन त्वरयन् कश्चिद्वद्वेदुत्तिष्ठ भो लघु । रात्रिर्जातेति दिवसे, रात्रौ च रविरुद्गतः ॥९०॥ अद्धाद्धा त्वेकदेशः स्याद्रात्रेर्वा दिवसस्य वा । सा मिश्रिता ययाऽद्धाद्धामिश्रिता सा भवेदिह ॥ ९१॥ कश्चिद्यथाऽऽद्य पौरुष्यां, कञ्चन त्वरयन् वदेत् । त्वरख जातो मध्यान्ह, एवमेव निशाखपि ॥ ९२॥ या त्वसत्यामृषाभिख्या, भाषा साऽपि जिनेश्वरैः । प्रज्ञप्ता द्वादशविधा, विविधातिशयान्वितैः॥ ९३ ॥ आमन्त्रण्या१ऽऽज्ञापनी २ च, याचनी ३ प्रच्छनी ४ तथा । प्रज्ञापनी ५ प्रत्याख्यानी ६, भाषा चेच्छाऽनुकूलिका ७॥४४॥ अनभिग्रहीता ८ भाषाऽभिगृहीता ९ तथा परा । संदेहकारिणी भाषा १०, व्याकृता ११ ऽव्याकृता १२ तथा ॥९५॥ हे देवेत्यादि तत्राद्या, द्वितीया त्वमिदं कुरु । तृतीयेदं ददखेति, तुर्याऽज्ञातार्थनोदनम् ॥९६॥ पञ्चमी तु विनीतस्य, विनेयस्योपदेशनम् । यथा हिंसाया निवृत्ता, जन्तवः स्युश्चिरायुषः॥९७ ॥ उक्तं च-"पाणिवहाओ नियत्ता हवंति दीहाउया अरोगा य । एमाई पन्नत्ता पन्नवणी वीयरायहि ॥९८॥" षष्ठीतु याचमानस्य,
200020200090020902020120
॥७४॥
२८
Jain Educatio
nal
For Private & Personel Use Only
NOMjainelibrary.org