________________
हारतः। गलत्यमत्रं शिखरी, दह्यतेऽनुदरा कनी ॥६९॥ भूभृत्तत्स्थतृणादीनाममत्रोदकयोरपि । अविभेदं विवक्षित्वा, लोको ब्रूते तथाविधम् ॥ ७० ॥ संभोगबीजप्रभवोदराभावे वदन्ति च । कन्यामनुदरां सत्यमित्यादि व्यवहारतः॥ ७१॥ भावो वर्णादिकस्तेन, सत्यं तु भावतो यथा । नैकवर्णोऽपि नीलस्य, प्रबलत्वाच्छुको हरित् ॥७२॥ स्थूलस्कन्धेषु सर्वेषु, सर्वे वर्णरसादयः। निश्चयाव्यवहारस्तु, प्रबलेन प्रवर्तते ॥ ७३ ॥ योगो|ऽन्यवस्तुसंबन्धो, योगसत्यं ततो भवेत् । छत्रयोगाद्यथा छत्री, छत्राभावेऽपि कर्हि चित् ॥ ७४ ॥ हृद्यं साध
य॑मौपम्यं, तेन सत्यं तु भूयसा । काव्येषु विदितं यद्वत्तटाकोऽयं पयोधिवत् ॥ ७५॥ मृषाभाषाऽपि दशधा, क्रोध १ मानविनिःसृता २ । माया ३ लोभ ४ प्रेम ५ हास्य ६ भय ७ द्वेषविनिःसृताः८॥ ७६ ॥ आख्यायिकानिःसृता तु, कथावसत्यवादिनः९। चौर्यादिनाऽभ्याख्यातोऽन्य, उपघातविनिःसृता १०॥७७॥ तथाऽऽहु:|"कोहे माणे माया लोभे पेजे तहेव दोसे य । हासे भय अक्खाइय उवघाइयणिस्सिया दसमा ॥ ७८॥" सत्यामृषापि दशधा, प्रथमोत्पन्नमिश्रिता १ । विगतमिश्रिता २ चान्योत्पन्नविगतमिश्रिता ३॥७९॥ जीवाजीवमिश्रिते द्वे ५, स्याज्जीवाजीवमिश्रिता ६ । प्रत्येकमिश्रिता ७ऽनन्तमिश्रिता ८ ऽद्धाविमिश्रिता ९ ॥ ८॥ अद्धाद्धामिश्रिते १० त्यत्र, प्रथमोत्पन्नमिश्रिता । उत्पन्नानामनिश्चित्य, संख्यानं वदतो भवेत् ॥८१॥ यथाऽत्र नगरे जाता, नूनं दशाद्यदारकाः। मृतास्तान् वदतोऽप्वेवं, भवेद्विगतमिश्रिता ॥८२॥ एवं चउत्पन्नांश्च विपन्नांश्च, युगपद्वदतो भवेत् । उत्पन्नविगतमिश्राढयो भेदस्तृतीयकः ॥८३ ॥ शडशजानकादीनां,
O930290HOTASO90000002028
Jain Educat
i
onal
For Private & Personal Use Only
Mainelibrary.org