________________
लोक द्रव्य. ३ सर्गः
॥ ७३ ॥
Jain Education
मुक्तिमार्गाराधनी या, सा गीः सत्योच्यते हिता । सा तं सत्याऽप्यसत्यैव, याऽन्येषामहितावहा ॥ ५६ ॥ असत्या तु भवेद्भाषा, मुक्तिमार्गविराधनी । द्विखभावा तृतीयाऽन्त्या, नाराधनविराधनी ॥ ५७ ॥ उक्तं च"सच्चा हिया सयामिह संतो मुणयो गुणा पयत्था वा । तद्विवरीया मोसा मीसा जा तदुभयसहावा ॥ ५८ ॥ अणहिगया जा तीसुवि सद्दो चिय केवलो असचमुसा" इति, तत्र सत्या दशविधा, प्रज्ञप्ता परमर्षिभिः । एभिः प्रकारैर्दशभिर्वदन्न स्याद्विराधकः ॥ ५९ ॥ तथाऽऽहु: - " जणवय १ सम्मय २ ठवणा ३ नामे ४ रूवे ५ पचसच्चे ६ अ ॥ ववहार ७ भाव ८ जोगे ९ दुसमे ओवम्मसचे १० अ ॥ १ ॥” तस्मिंस्तस्मिन् जनपदे, बच्चोऽर्थप्रतिपत्तिकृत् । सत्यं जानपदं पिचं, कोङ्कणादौ यथा पयः ॥ ६० ॥ भवेत्संमतसत्यं तद्, यत्सर्वजनसंमतम् । यथाऽन्येषां पङ्कजत्वेऽप्यरविन्दं हि पङ्कजम् ॥ ६१ ॥ तद्भवेत्स्थापनासत्यं स्थापितं तत्प्रतीतिकृत् । यथैककः पुरो बिन्दुद्वययुक्तः शतं भवेत् ॥ ६२ ॥ अर्हदादिविकल्पेन, कर्म लेप्यादिकं हि यत् । स्थाप्यते तदपि प्राज्ञैः, स्थापनासत्यमीरितम् ॥ ६३ ॥ यद्यस्य निर्मितं नाम, नामसत्यं तु तद्भवेत् । अवर्धयन्नपि कुलं, यथा स्यात्कुलवर्द्धनः ॥ ६४ ॥ तत्तद्वेषाद्युपादानाद्रूपसत्यं भवेदिह । यथाऽऽत्तमुनिनेपथ्यो, दाम्भिकोऽप्युच्यते मुनिः ॥ ६५ ॥ वस्त्वन्तरं प्रतीत्य स्याद्दीर्घताहखतादिकम् । यदेकत्र तत्प्रतीत्यसत्यमुक्तं जिनेश्वरैः ॥ ६६ ॥ दैर्ध्य यथाऽऽनामिकाया, अधिकृत्य कनिष्ठिकाम् । तस्या एव च हखत्वं, मध्यमामधिकृत्य तु ॥ ६७ ॥ यथा चैत्रस्य पुत्रत्वं, स्यात्तत्पितुरपेक्षया । पितृत्वमपि तस्यैव, खपुत्रस्य व्यपेक्षया ॥ ६८ ॥ विवक्षया यल्लोकानां तत्सत्यं व्यव
For Private & Personal Use Only
३१ योगद्वारे भाषायाः स्वरूपम् भेदाव
२०
२५
॥ ७३ ॥
२८
www.Janelibrary.org