SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ लो. प्र. १३ भाषावाग्यो गयोर्ननु । भाषाधिकारो यत्प्रोक्तः, सूत्रे वाग्योगतः पृथक् ॥ ५२ ॥ अत्रोच्यते - युज्यते इति योगः स्यादितिव्युत्पत्तियोगतः । भाषाप्रवर्त्तको जन्तुयत्नो वाग्योग उच्यते ॥ ५३ ॥ भाषात्वेनापादिता या, भाषाई द्रव्यसंततिः । सा भाषा स्यादतो भेदो, भाषावाग्योगयोः स्फुटः ॥ ५४ ॥ तथोक्तमावश्यकबृहद्वृत्तौ - "गिण्हह य काइएणं, निसिरइ तह वाइएण जोगेणं"ति । अत्र कश्चिदाह-तत्र कायिकेन गृह्णातीत्येतद्युक्तं, तस्यात्मव्यापाररूपत्वात्, निस्सृजति तु कथं वाचिकेन ?, कोऽयं वाग्योग ? इति, किं वागेव व्यापारापन्ना आहोश्चित्तद्विसर्गहेतुः कायसंरंभ इति ?, यदि पूर्वी विकल्पः स खल्वयुक्तः, तस्या योगत्वानुपपत्तेः, तथा च न वाक् केवला जीवव्यापारः, तस्याः पुद्गलमात्र परिणामरूपत्वात्, रसादिवत्, योगश्चात्मनः शरीरवतो व्यापार इति, न च तया भाषा निस्सृज्यते, किंतु सैव निस्सृज्यत इत्युक्तं, अथ द्वितीयः पक्षः ततः स कायव्यापार एवेति कृत्वा कायिकेनैव निसृजतीत्यापन्नम्, अनिष्टं चैतद्, अत्रोच्यते, न अभिप्रायापरिज्ञानादू, इह तनुयोगविशेष एव वाग्योगो मनोयोगश्चेति, कायव्यापारशून्यस्य सिद्धवत् तद्भावात् ततश्चात्मनः शरीरव्यापारे सति येन शब्दद्रव्योपादानं करोति स कायिकः, येन तु कायसंरंभेण तान्येव मुञ्चति स वाचिक इति, तथा येन मनोद्रव्याणि मन्यते स मानस इति, कायव्यापार एवायं व्यवहारार्थं त्रिधा विभक्त इत्यतोऽदोषः ॥ अथ प्रसङ्गो भाषारूपं वच्मि साऽपि हि । चतुर्विधोक्तन्यायेन, सत्यासत्यादिभेदतः ॥ ५४ ॥ सन्तो जीवादयो भावाः, सन्तो वा मुनयोऽथवा । मूलोत्तरगुणास्तेभ्यो, हिता सत्याऽभिधीयते ॥ ५५ ॥ अयं भावः - Jain Education Intational For Private & Personal Use Only १० १४ www.ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy