SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ लोक. द्रव्य. ३ सर्गः ॥ ७२ ॥ Jain Educatio | सत्यमसत्यं च ततोऽन्यथा ॥ ३६ ॥ पदार्थानां हितं तत्र, यथावस्थितचिन्तनात् । मुनीनां च हितं यस्मान्मोक्ष| मार्गैकसाधनम् ॥ ३७ ॥ खतो विप्रतिपत्तौ वा, वस्तु स्थापयितुं किल । सर्वज्ञोक्तानुसारेण, चिन्तनं सत्यमुच्यते ॥ ३८ ॥ यथाऽस्ति जीवः सदसद्रूपो व्याप्य स्थितस्तनुम् । भोक्ता स्वकर्मणां सत्यमित्यादि परिचिन्तनम् ॥ ३९ ॥ प्रश्ने विप्रतिपत्तौ वा स्वभावादुत वस्तुषु । विकल्प्यते जैनमतोत्तीर्णं यत्तदसत्यकम् ॥ ४० ॥ नास्ति | जीवो यथैकान्तनित्योऽनित्यो महानणुः । अकर्त्ता निर्गुणोऽसत्यमित्यादिपरिचिन्तनम् ॥ ४१ ॥ किञ्चित्सत्यमसत्यं वा, यत्स्यादुभयधर्मयुक् । स्यात्तत्सत्यमृषाभिख्यं, व्यवहारनयाश्रयात् ॥ ४२ ॥ यथाऽन्यवृक्ष मिश्रे षु, बहुष्वशोकशाखिषु । अशोकवनमेवेदमित्यादिपरिचिन्तनम् ॥ ४३ ॥ सत्वात्कतिपय शोकतरूणामंत्र सत्यता । अन्येषामपि सद्भावाद्भवेदसत्यतापि च ॥ ४४ ॥ भवेदसत्यमेवेदं निश्वयापेक्षया पुनः । विकल्पितस्वरू|पस्था सद्भावादिह वस्तुनः ॥ ४५ ॥ विनार्थप्रतितिष्ठासां, खरूपमात्र चिन्तनम् । उक्ततल्लक्षणायोगान्न सत्यं न मृषा च तत् ॥ ४६ ॥ यथा चैत्रायाचनीया, गौरानेयो घटस्ततः । पर्यालोचनमित्यादि, स्यादसत्यामृषाभिधम् ॥४७॥ व्यवहरापेक्षयैव, पृथगेतदुदीर्यते । निश्चयापेक्षया सत्येऽसत्ये वाऽन्तर्भवेदिदम् ॥ ४८ ॥ तथाहि - गौर्याच्येत्यादिसंकल्पं, दम्भेन विदधीत चेत् । अन्तर्भवेत्तदाऽसत्ये, सत्ये पुनः स्वभावतः ॥ ४९ ॥ सर्वमेतद्भावनीयं, वाग्येोगेऽप्यविशेषतः । भाविताश्चिन्तने भेदा, भाव्यास्तेऽत्र तु जल्पने ॥ ५० ॥ एवं मनोवचोयोगाः, स्युः प्रत्येकं चतुर्विधाः । ततो योगाः पञ्चदश, व्यवहारनयाश्रयात् ॥ ५१ ॥ किमु कश्चिद्विशेषोऽस्ति, ational For Private & Personal Use Only ३१ योगाः 상 २५ ॥ ७२ ॥ २८ jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy