SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ मतं सिद्धान्तिनामेतत्, कर्मग्रन्थविदः पुनः । वैक्रियाहारकमिश्रे, एव प्राहुरिमे क्रमात् ॥ २१ ॥ यदारम्भे वैक्रियस्य, परित्यागेऽपि तस्य ते । वदन्ति वैक्रियं मिश्रमेवमाहारकेऽपि च ॥ २२॥ वैक्रियदेहपर्यास्या, पर्यासस्य शरीरिणः । वैक्रियः काययोगः स्यात्तन्मिश्रस्तु द्विधा भवेत् ॥ २३ ॥ योऽपर्याप्तदशायां स्यान्मिश्रो नारकनाकिनाम् । योगः समं कार्मणेन, स स्थाद्वैक्रियमिश्रकः ॥ २४ ॥ तथा यदा मनुष्यो वा, तिर्यक्रपञ्चेन्द्रियोऽथवा । वायुर्वा वैक्रियं कृत्वा, कृतकार्योऽथ तत्त्यजन् ॥ २५ ॥ औदारिकशरीरान्तः,प्रवेष्टुं यतते तदा। योगो वैक्रियमिश्रः स्यात्सममौदारिकेण च ॥ २६॥ मिश्रीभावो यदप्यत्रोभयनिष्ठस्तथाप्यसौ । प्राधान्या द्वैक्रियेणैव, ख्यातो नौदारिकेण तु ॥ २७ ॥ प्राधान्यं तु वैक्रियस्य, प्राज्ञैर्निरूपितं ततः। औदारिके त प्रवेश || एतस्यैव बलेन यत् ॥ २८ ॥ आहारकाङ्गपर्यास्या, पर्याप्तानां शरीरिणाम् । आहारकः काययोगः, स्याचतुई-18 शपूर्विणाम् ॥ २९ ॥ आहारकवपुः कृत्वा, कृतकार्यस्य तत्पुनः । त्यक्त्वा खाङ्गे प्रविशतः, स्यादाहारकमिश्रकः॥३०॥ द्वयोः समेऽपि मिश्रत्वे, बलेनाहारकस्य यत् । औदारिकेऽनुप्रवेशस्तेनेत्थं व्यपदिश्यते ॥३१॥ तैजसं कार्मणं चेति, द्वे सदा सहचारिणी। ततो विवक्षितःसैको, योगस्तैजसकार्मणः॥३२॥ जन्तूनां विग्रहगतावयं केवलिनां पुन:। समुद्घाते समयेषु, स्यात्तृतीयादिषु त्रिषु ॥ ३३ ॥ एवं निरूपिताः सप्त, योगाः कायसमुद्भवाः । अथ चित्तवचोजातांश्चतुरश्चतुरो ब्रुवे ॥ ३४ ॥ सत्यो मृषा सत्यमृषा, न सत्यो न मृषापि च । मनोयोगश्चतुर्धेवं, वाग्योगोऽप्येवमेव च ॥३५॥ तत्र च-सन्त इत्यभिधीयन्ते, पदार्था मुनयोऽथवा । तेषु साधु हितं १ Jain Eddi emational For Private & Personel Use Only ww.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy