SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ येण जायमाने देशोनपूर्वकोटिं यावदुत्कर्षेण भवतः, महांति चाप्रमत्तापेक्षया प्रमत्तान्तमुहर्तानि कल्प्यन्ते, एवं चान्तर्मुहूर्तप्रमाणानां प्रमत्ताद्धानां सर्वासां मिलने देशोनपूर्वकोटीकालमानं भवति, अन्ये त्वाहु:-अष्टववर्षानां पूर्वकोटिं यावदुत्कर्षतः प्रमत्तता स्यात्, एवमप्रमत्तसूत्रमपि । नवरं, 'जह अंतोमुहुत्तं'ति, किलाप्रमत्ता द्धायां वर्तमानस्यान्तमुहर्तमध्ये मृत्युनं भवतीति, चूर्णिकारमतं तु प्रमत्तसंयतवर्ज: सर्वोऽपि सर्वविरतोऽप्रमत्त उच्यते, प्रमादाभावात् , स चोपशमश्रेणिं प्रतिपद्यमानो मुहर्ताभ्यन्तरे कालं कुर्वन् जघन्यकालो लभ्यते इति, देशोनपूर्वकोटी तु केवलिनमाश्रित्येति ॥ यनिर्दिष्टं जिनाधीशैरेकजीवव्यपेक्षया । त्यक्त्वा पुन: प्राप्तिरू. पमथैषामुच्यतेऽन्तरम् ॥९६॥ जघन्यं सासादनस्य, पल्यासंख्यांशसंमितम् । शेषेषु च दशानां स्यादन्तर्मुहर्त्तमन्तरम् ॥ ९७॥ मिथ्यात्वस्य तदुत्कृष्टं, द्विषट्षष्टिः पयोधयः । साधिकाः कथितास्तत्र, श्रूयतां भावना त्वियम् ॥ ९८॥ अनुभूय स्थिति कश्चित् , सम्यक्त्वस्य गरीयसीम् । मिश्रं ततोऽन्तर्मुहूत्र्तमनुभूय ततः पुनः ॥ ९९ ।। षट्षष्ट्यम्भोनिधिमितां, सम्यक्त्वस्य गुरुस्थितिम् । समाप्य कोऽपि मिथ्यात्वं, जातु याति तदा हि तत् ॥ १३०० ॥ देशोनपुद्गलपरावर्द्धिप्रमितं मतम् । द्वितीयादीनां दशानां, गुणानां ज्येष्ठमन्तरम् ॥१॥ क्षपकस्यान्तरं जातु, न स्यात्रिष्वष्टमादिषु । सकृत्प्राप्तेः क्षीणमोहादित्रयेऽप्यन्तरं न हि ॥२॥ इति गुणाः३०॥ दशपश्चाधिका योगा, सप्त स्युस्तत्र कायिकाः । चत्वारो मानसोभूतास्तावन्त एव वाचिकाः ॥३॥ औदारिकस्तन्मिश्रः स्याद्वैक्रियस्तेन मिश्रितः। आहारकस्तन्मिश्रः सप्तमस्तैजसकार्मणः॥४॥ पर्याप्तानां ऋतिरश्चा अनुभूयतां सम्ममित माक्षी Jain Educa t ional For Private & Personel Use Only ( jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy