SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. ३ सर्गः ३० गुणस्थानकानि ॥ ७० ॥ गुणा मिथ्याशस्तेभ्योऽप्यनन्तकाः । इदमल्पबहुत्वं स्यात्,सर्वत्रोत्कर्षसंभवे ॥८६॥ विपर्ययोऽप्यन्यथा स्यात, स्तोकाः स्युर्जातुचिद्यथा । उत्कृष्टशान्तमोहेभ्यो, जघन्याःक्षीणमोहकाः॥८७॥ एवं सास्वादनादिष्वपि भाव्यं॥ मिथ्यात्वं कालतोऽनादि, सान्तं स्यात्सादिसान्तकम् । अनाद्यनन्तं च न तत्साधनन्तं तु संभवेत् ॥ ८८ ॥ स्यादाचं तत्र भव्यानामनाप्तपूर्वसदृशाम् । द्वितीयं प्राप्य सम्यक्त्वं, पुनर्मिथ्यात्वमीयुषाम् ॥ ८९ ॥ स्यात्तृतीयमभव्यानां, सदा मिथ्यात्ववर्तिनाम् । आनंत्यासंभवात्सादेस्तुर्य युक्तमसंभवि ॥९०॥ सासादनं चोक्तमेव, षडावलिमितं पुरा । तुर्य मितं समधिकत्रयस्त्रिंशत्पयोधिभिः ॥९१ ॥ सर्वार्थसिद्धदेवत्वे, त्रयस्त्रिंशत्पयोनिधीन् । धृत्वाऽविरतसम्यक्त्वं, ततोऽत्राप्यागतोऽसकौ ॥ ९२॥ यावदद्यापि विरतिं, नाप्नोति तावदेष यत् । तुर्यमेव गुणस्थानमुररीकृत्य वर्तते ॥ ९३ ॥ किश्चिन्यूननवान्दोनपूर्वकोटिमिते मते । त्रयोदशं पञ्चमं च, गुणस्थाने उभे अपि ॥ ९४ ॥ अन्तिमं ङञणनमत्येवंरूपैः किलाक्षरैः। अविलम्बात्वरतयोचारितैः प्रमितं भवेत् ॥ ९५॥ आन्तर्मुहूर्तिकानि स्युः, शेषाण्यष्टाप्यमूनि च । केचिदूचुन्यूनपूर्वकोटिके षष्ठसप्तमे ॥९६॥ तथोक्तं भगवतीसूत्रे-“पमत्तसंजयस्स णं पमत्तसंजमे वट्टमाणस्स सवाविणं पमत्तद्धा कालओ केवचिरं होइ ?, मंडिआ ! एणं जीवं पडुच जह० एगं समयं उक्कोसं देसूणा पुवकोडी, णाणाजीवे पडुच्च सबद्धा, अस्य वृत्तिः-जह. एकं समयंतिकथं ?, उच्यते, प्रमत्तसंयतप्रतिपत्तिसमयसमन. न्तरमेव मरणात्, 'देसूणा पुवकोडि'त्ति, फिल प्रत्येकमन्तर्मुहूर्तप्रमाणे व प्रमत्ताप्रमत्तगुणस्थाने, ते च पर्या. RO lain Educatio n al For Private & Personel Use Only Orainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy