SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ लोक. द्रव्य. ३ सर्गः ॥ ६९ ॥ Jain Educatio ॥ ५४ ॥ निर्माणाद्यसंहनने, देहे तैजसकार्मणे । असातसातान्यतरत् तथा सुखदुःखरे ॥ ५५ ॥ एतासां त्रिंशतः कर्मप्रकृतीनां त्रयोदशे । गुणस्थाने व्यवच्छेद, उदयापेक्षया भवेत् ॥ ५६ ॥ भाषापुद्गलसंघातविपा | कित्वादयोगिनि । नोदयो दुःखरनामसुखरनामकर्मणोः ॥ ५७ ॥ शरीरपुद्गलदलविपाकित्वादयोगिनि । शेषा न स्युः काययोगाभावात्प्रकृतयस्त्विमाः ॥ ५८ ॥ ततश्च यशः सुभगमादेयं, पर्याप्तं त्रसबादरे । पञ्चाक्षजातिमनुजायुर्गत्यौ (ती) जिननाम् च ॥५९॥ उच्चैर्गोत्रं तथा सातासातान्यतरदेव च । अन्त्यक्षणावध्युदया, द्वादशैता अयोगिनः ॥ ६० ॥ नास्ति योगोऽस्येत्ययोगी, तादृशो यश्च केवली । गुणस्थानं भवेत्तस्यायो गिकेवलिनामकम् ॥ ६१ ॥ तच्चैवं - अन्तर्मुहूर्त्तशेषायुः, सयोगी केवली किल । लेइयातीतं प्रतिपित्सुर्ध्यानं योगान् रुणद्धि सः ॥ ६२ ॥ तत्र पूर्व बादरेण, काययोगेन बादरौ । रुणद्धि वाग्मनोयोगी, काययोगं ततश्च तम् ॥ ६३ ॥ सूक्ष्मक्रियं चानिवृत्तिशुक्लध्यानं विभावयन् । रुन्ध्यात्सूक्ष्माङ्गयोगेन, सूक्ष्मौ मानसवाचिकौ ॥ ६४ ॥ रुद्ध्यथो काययोगं, स्वात्मनैव च सूक्ष्मकम् । स स्यात्तदा त्रिभागोनदेहव्यापिप्रदेशकः ॥ ६५ ॥ शुक्लध्यानं समुच्छिन्नक्रि| यमप्रतिपाति च । ध्यायन् पञ्चहस्त्रवर्णोच्चारमानं स कालतः ॥ ६६ ॥ शैलेशीकरणं याति, तच्च प्राप्तो भवत्यसौ । योगव्यापाररहितोऽयोगी सिद्ध्यत्यसौ ततः ॥ ६७ ॥ गत्यानुपूयों देवस्य शुभान्यखगतिद्वयम् । द्वौ गन्धावष्ट च स्पर्शा, रसवर्णाङ्गपञ्चकम् ॥ ६८ ॥ तथा पञ्च बंधनानि पञ्च संघातनान्यपि । निर्माणं षट् संहननान्यस्थिरं वा शुभं तथा ॥ ६९ ॥ दुर्भगं च दुःखरं चानादेयमयशोऽपि च । संस्थानषट्कमगु For Private & Personal Use Only ३० गुणस्थानकानि २० २५ ॥ ६९ ॥ २८ ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy