SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ शदाचं, शतं प्रकृतयोऽत्र याः। सत्तायामभवंस्तासु, षट्चत्वारिंशतः क्षयात् ॥ ३९॥ व्याचं शतं प्रकृतयोऽवशिष्टा दशमे गुणे । क्षीणमोहद्विचरमक्षणावध्येकयुक् शतम् ॥ ४०॥ सत्तायां नवनवतिः, क्षीणमोहान्तिमक्षणे । चतुर्दशक्षयादत्र, पश्चाशीतिः सयोगिनि ॥४१॥ ततोऽयोगिद्विचरमक्षणे द्वासप्ततिक्षयः। अयोगिनः क्षणेऽन्त्ये च, शेषत्रयोदशक्षयः॥४२॥ अत्र भाष्यं-"आवरणक्खयसमए, निच्छइयनयस्स केवलुप्पत्ती। तत्तोऽणंतरसमए, ववहारो केवलं भणइ॥४३॥"क्षपकश्रेणिस्थापना। योगोनामात्मनो वीर्य,तत्स्याल्लब्धिविशेषतः। वीर्यान्तरायक्षपणक्षयोपशमसंभवात् ॥४४॥योगो द्विधा सकरणोऽकरणश्चेति कीर्तितः। तत्र केवलिनोज्ञेयदृश्येष्वखिलवस्तुषु ॥४५॥ उपयुञानस्य किल, केवले ज्ञानदर्शने ।योऽसावप्रतिघो वीर्यविशेषोऽकरणः स तु॥४६॥ युग्मम् । अयं च नानाधिकृतो, योगः सकरणस्तु यः।मनोवाकायकरणहेतुकोऽधिकृतोऽत्र सः॥४७॥ केवल्युपेतस्तैोगैः, सयोगी केवली भवेत् । सयोगिकेवल्याख्यं स्याद, गुणस्थानं च तस्य यत् ॥४८॥ मनोवाकायजाश्चैवं, योगाः केवलिनोऽपि हि । भवन्ति कायिकस्तत्र, गमनागमनादिषु ॥४९॥ वाचिको यतमानानां, जिनानां देशनादिषु । भवत्येवं मनोयोगोऽप्येषां विश्वोपकारिणाम् ॥५०॥ मनःपर्यायवद्भिर्वा, देवैर्वा-1 ऽनुत्तरादिभिः। पृष्टस्य मनसाऽर्थस्य, कुर्वतां मनसोत्तरम् ॥५१॥ द्विचत्वारिंशतः कर्मप्रकृतीनामिहोदयः। जिनेन्द्रस्यापरस्यैकचत्वारिंशत एव च ॥५२॥ औदारिकाङ्गोपाङ्गेच, शुभान्यखगतिद्वयम् । अस्थिरं चाशुभं चेति, प्रत्येकं च स्थिरं शुभम् ॥५३॥ संस्थानषट्कमगुरुलघूपघातमेव च । पराघातोच्छासवर्णगन्धस्पर्शरसा इति 920209200002028armoOT2O90 Jain Educat i onal For Private & Personal Use Only ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy