SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. ३ सर्गः ॥६८॥ सकलक्षपकश्चाथ. विधाय सप्तकक्षयम् । क्षयं नयेत्वनरकतिर्यगायूंष्यतः परम् ॥ २७ ॥ प्रत्याख्यानाप्रत्या ३०-गुणख्यानाकमन्तयेद गुणे नवमे । तस्मिन्न क्षपिते क्षपयेदिति षोडश प्रकृतीः ॥ २८॥ तिर्यगनरकस्थावरयगला-स्थानकानि न्युद्योतमातपं चैव । स्त्यानर्द्धित्रयसाधारणविकलैकाक्षजातीश्च ॥ २९॥ अत्र तिर्यगयुगलं-तिर्यग्गतितिर्यगानुपूर्वीरूपं, नरकयुगलं-नरकगतिनरकानुपूर्वीरूपं, स्थावरयुगलं-स्थावरसूक्ष्माख्यमिति ज्ञेयं । अर्धदग्धेन्धनो वह्निदेहेत्प्राप्यन्धनान्तरम् । क्षपकोऽपि तथाऽत्रान्तः, क्षपयेत्प्रकृतीः पराः ॥ ३०॥ कषायाष्टकशेषं च, क्षपयित्वाऽन्तयेत् क्रमात् । क्लीषस्त्रीवेदहास्यादिषट्कपूरुषवेदकान् ॥ ३१॥ एष सूत्रादेशः, अन्ये पुनराहु:षोडश कर्माण्येव पूर्व क्षपयितुमारभते, केवलमपान्तरालेऽष्टौ कषायान् क्षपयति, पश्चात्षोडश कर्माणीति कर्मग्रन्थवृत्तौ । क्रमः पुंस्यारम्भकेऽयं, स्त्री तु क्षपयति क्रमात् । क्लीवपुंवेदहास्यादिषट्क स्त्रीवेदमेव च ॥ ३२॥ क्लीवस्त्वारम्भको नूनं, स्त्रीवेदं प्रथम क्षिपेत् । पुंवेदं हास्यषट्कं च, नपुंवेदं ततः क्रमात् ॥ ३३ ॥ ततः संज्वलनक्रोधमानमायाश्च सोऽन्तयेत् । ततः संज्वलनं लोभ, क्षपयेदशमे गुणे ॥ ३४ ॥ लोभे च मूलतः क्षीणे, निस्तीर्णो मोहसागरम् । विश्राम्यति स तत्रान्तर्मुहूर्त क्षपको मुनिः॥ ३५॥ तथोक्तं भाष्ये-"खीणे खवगनियंठो वीसमए मोहसागरं तरि । अंतोमुहुत्तमुदहि, तरि थाहे जहा पुरिसो॥३६॥" गतोऽथ द्वादशे क्षीणकषायाख्ये गुणेऽसुमान् । निद्रां च प्रचलां चास्यान्तयेदन्त्यादिमक्षणे ॥ ३७॥ पञ्च ज्ञाना-18 वरणानि, चतस्रो दर्शनावृतीः । पञ्च विघ्नांश्च क्षणेऽन्त्ये, क्षपयित्वा जिनो भवेत् ॥ ३८॥ एवं च-अष्टचत्वारि २८ जटिटटटटटटटcaceaeroese For Private Personel Use Only inelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy