________________
श्रेणिमाश्रयेत् । भवे तत्र द्विः कृतोपशमश्रेणिस्तु नैव ताम् ॥ १६॥ इति कर्मग्रन्थलघुवृत्तौ । इत्येकादशं ११ | क्षीणाः कषाया यस्य स्युः, स स्यात् क्षीणकषायकः । वीतरागच्छद्मस्थश्च, गुणस्थानं यदस्य तत् ॥ १६ ॥ क्षीणकषा यच्छद्मस्थवीतरागाह्वयं भवेत् । गुणस्थानं केवलित्वङ्गाधिगमगोपुरम् ॥ १७ ॥ तत्र च - श्रेष्ठसंहननो वर्षाष्टकाधिकवया नरः। सद्ध्यानः क्षपकश्रेणिमप्रमादः प्रपद्यते ॥ १८ ॥ तथोक्तं कर्मग्रन्थलघुवृत्ती - " क्षपकश्रेणिप्रतिपन्नो मनुष्यो वर्षाष्टको परिवर्ती अविरतादीनामन्यतमोऽत्यन्तशुद्धपरिणाम उत्तमसंहननः, तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि केचन धर्मध्यानोपगत इत्याहुः । विशेषावश्यक वृत्तौ च” पूर्वधरोऽप्रमत्तः शुक्लध्यानोपगतोऽप्येतां प्रतिपद्यते, शेषास्त्वविरतादयो धर्मध्यानोपगता इति निर्णयः । तत्क्रमश्चायं स तुर्यादिगुणस्थानचतुकान्यतरेऽन्तयेत् । अन्तर्मुहूर्त्ताद्युपगत्, प्रागनन्तानुबन्धिनः ॥ १९॥ ततः क्रमेण मिथ्यात्वं, मिश्रं सम्यक्त्वमन्तयेत् । उच्यते कृतकरणः, क्षीणेऽस्मिन् सप्तके च सः ॥ २० ॥ बद्धायुः क्षपकश्रेण्यारम्भकश्चेन्निवर्त्तते । अनन्तानुबन्धिनाशानन्तरं जीवितक्षयात् ॥ २१ ॥ तदा मिथ्यात्वोदयेन, भूयोऽनन्तानुबन्धिनः । बध्नाति मिथ्यात्वरूपतद्वीजस्याविनाशतः ॥ २२ ॥ क्षीणे मिथ्यात्वबीजे तु भूयोऽनन्तानुबन्धिनाम् । न बन्धोऽस्ति क्षिति-रुहो, बीजे दग्धे हि नाङ्करः || २३ || सुरेषूत्पद्यतेऽवश्यं, बद्धायुः क्षीणसप्तकः । चेत्तदानीमपतितपरिणामो म्रियेत सः ||२४|| निपतत्परिणामस्तु, बद्धायुम्रियते यदि । गतिमन्यतमां याति, स विशुद्ध्यनुसारतः ॥ २५ ॥ बद्धायुष्कोऽथाक्षतायुः क्षपको म्रियते न चेत् । नियमात्सप्तके क्षीणे, विश्राम्यति तथाऽप्यसौ ॥ २६ ॥
Jain Educatinational
For Private & Personal Use Only
१०
१४
ww.jainelibrary.org