________________
लोक द्रव्य. ३ सर्गः
॥ ६६ ॥
Jain Education
करोति कालतोऽल्पां तदपूर्वा प्रागपेक्षया ॥ ७३ ॥ तथा बध्यमानशुभप्रकृ तिष्वशुभात्मनाम् । तासामवध्यमानानां दलिकस्य प्रतिक्षणे ॥ ७४ ॥ असंख्यगुणवृद्ध्या यः क्षेपः स गुणसंक्रमः । तमप्यपूर्वं कुर्वीत, सोऽत्र शुद्धिमकर्षतः ॥ ७५ ॥ स्थितिं द्राघीयसीं पूर्वगुणस्थानेषु बद्धवान् । अशुद्धत्वादिह पुनस्तामपूर्वं विशुद्धितः ॥ ७६ ॥ पल्यासंख्येयभागेन, हीनहीनतरां सृजेत् । तद् गुणस्थानमस्य स्यादपूर्वकरणाभिधम् ॥७७॥ अष्टभिः | कुलकं ॥ क्षपकश्चोपशमकश्चेत्यसौ भवति द्विधा । क्षपणोपशमार्हत्वादेवायं प्रोच्यते तथा ॥ ७८ ॥ न यद्यपि | क्षपयति, न चोपशमयत्ययम् । तथाप्युक्तस्तथा राज्यार्हः कुमारो यथा नृषः ॥ ७१ ॥ अन्तर्मुहूर्त्तमानाया, अपूर्वकरणस्थितेः । आय एवं क्षण एतद्गुणस्थानं प्रपन्नकान् ॥ ८० ॥ त्रैकालिकाङ्गिनोऽपेक्ष्य, जघन्यादीन्यसंख्यशः । स्थानान्यध्यवसायस्योत्कृष्टान्तानि भवन्ति हि ॥ ८१ ॥ असंख्यलोकाकाशांशमितानि स्युरमूनि च । ततोऽधिकाधिकानि स्युर्द्वितीयादिक्षणेषु तु ॥ ८२ ॥ आये क्षणे यजघन्यं, ततोऽनन्तगुणोज्ज्वलम् । भवेद:| यक्षणोत्कृष्टं ततोऽनन्तगुणाधिकम् ॥ ८३ ॥ क्षणे द्वितीये जघन्यमेवमन्त्यक्षणावधि । मिथः षट्स्थान पतितान्येकक्षणभवानि तु ॥ ८४ ॥ समकालं प्रपन्नानां, गुणस्थानमिदं खलु । बहूनां भव्यजीवानां वर्त्तते यत्परस्परम् ॥ ८५ ॥ उक्तरूपाध्यवसायस्थानव्यावृत्तिलक्षणा । निवृत्तिस्तन्निवृत्त्याख्यमप्येतत्कीर्त्त्यते बुधैः ॥ ८६ ॥ इत्यष्टमं । तथा-परस्पराध्यवसायस्थानव्यावृत्तिलक्षणा । निवृत्तिर्यस्य नास्त्येषोऽनिवृत्त्याख्योऽसुमान् भवेत् ॥ ८७ ॥ तथा किटीकृतसूक्ष्मसंपरायव्यपेक्षया । स्थूलो यस्यास्त्यसौ स स्याद्वादर संपरायकः ॥ ८८ ॥ ततः
national
For Private & Personal Use Only
३० गुण
स्थाने ४-५६-७गुण.
अपूर्वकर
णं च
२५
॥ ६६ ॥
२८
v.jainelibrary.org