________________
पशमिक, शुद्धपुञ्जोदयेन वा। क्षायोपशमिकाभिख्य, सम्यक्त्वं प्राप्तवानपि ॥५८॥ सम्यक्त्वं क्षायिक वाऽऽप्तः, क्षीणदर्शनसप्तकः । कलयन्नपि सावद्यविरतिं मुक्तिदायिनीम् ॥ ५९॥ नैवाप्रत्याख्याननामकषायोदयविघ्नतः। स देशतोऽपि विरतिं, कत्तुं पालयितुं क्षमः॥६०॥ इति चतुर्थ । स्थूलसावधविरमाद्यो देशविरतिं श्रयेत् । स देशविरतस्तस्य, गुणस्थानं तदुच्यते ॥ ६१॥ सर्वसावद्यविरतिं, जानतोऽप्यस्य मुक्तिदाम् । तदादृतौ प्रत्याख्यानावरणा यान्ति विघ्नताम् ॥ ३२॥ इति पञ्चमं । संयतस्सर्वसावद्ययोगेभ्यो विरतोऽपि यः। कषायनिद्राविकथादिप्रमादैः प्रमाद्यति ॥ ६३ ॥ स प्रमत्तः संयतोऽस्य, प्रमत्तसंयताभिधम् । गुणस्थानं प्राक्तनेभ्यः, स्याद्विशुद्धिप्रकर्षभृत् ॥ ६४ ॥ वक्ष्यमाणेभ्यश्च तेभ्यः, स्याद्विशुद्ध्यपकर्षभृत् । शुद्धिप्रकर्षापकर्षावेवं भाव्यौ परेष्वपि ॥६५॥ इति षष्ठं । यश्च निद्राकषायादिप्रमादरहितो यतिः । गुणस्थानं भवेत्तस्याप्रमत्तसंयताभिधम् ॥६६॥ इति ससमं । स्थितिघातो रसघातो, गुणश्रेणिस्तथा परा । गुणानां संक्रमश्चैव, बन्धो भवति पञ्चमः॥ ६७॥ एषां पञ्चानामपूर्व, करणं प्रागपेक्षया । भवेद्यस्यासावपूर्वकरणो नाम कीर्तितः ॥६८॥ गरीयस्याः स्थितेर्ज्ञानावरणीयादिकर्मणाम् । योऽपवर्तनया घातो, स्थितिघातः स उच्यते ॥ १९॥ कर्मद्रव्यस्थकटुकवादिकस्य रसस्य हि । योऽपवर्तनया घातो, रसघातः स कीर्त्यते॥७०॥ एतौ पूर्वगुणस्थानेष्वल्पा-IS
वेव करोति सः। विशुद्ध्यल्पतयाऽस्मिंस्तु, महान्तौ शुद्धिवृद्धितः॥७१॥ यत्प्रागाश्रित्य दलिकरचनां तां पालघीयसीम् । चकार कालतो द्राधीयसी शुद्ध्यपकर्षतः॥७२॥ अस्मिंस्त्वाश्रित्य दलिकरचनां तां प्रथीयसीम् ।
समं । स्थितिघातकरणं प्रागपेक्षयात, स्थिति
१४
Jain Educat
ional
For Private Personel Use Only
Sraw.jainelibrary.org