SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ संग्रहणीवृत्ती--" एकेन्द्रियाणामतिस्तोकापटुमनोद्रव्यलब्धीनामा भोगमान्याद्वस्तुतोऽना भोगनिवर्त्तित एव, यदागमः - "एगेंदियाणां नो आभोगनिवत्तिए, अणाभोगनिवत्तिए” इति । द्विक्षणोनो भवः क्षुल्लो, जघन्या कायसंस्थितिः । आहारित्वे गरिष्ठा च, कालचक्राण्यसंख्यशः ॥ ३० ॥ इत्याहारः २९ ॥ गुणा नाम गुणस्थानान्यमूनि च चतुर्द्दश । वच्मि स्वरूपमेतेषामन्वर्थव्यक्तिपूर्वकम् ॥ ३१ ॥ तथाहु: - "मिच्छे सासंण मीसें अविर देते पमते अपमन्ते । नियही अनियही मुहुर्मुदसमें खीर्ण सजोगिं अजोगिं गुणा ॥ ३२ ॥ " गुणा ज्ञानादयस्तेषां स्थानं नाम खरूपभित् । शुद्ध्य शुद्धिप्रकर्षापकर्षोत्थाऽत्र प्रकीर्त्त्यते ॥ ३३ ॥ तत्र मिथ्या विपयस्ता, जिनप्रणीतवस्तुषु । दृष्टिर्यस्य प्रतिपत्तिः, स मिथ्यादृष्टिरुच्यते ॥ ३४ ॥ यत्तु तस्य गुणस्थानं, सम्यग्धष्टिमबिभ्रतः । मिथ्यादृष्टिगुणस्थानं, तदुक्तं पूर्वसूरिभिः ॥ ३५ ॥ ननु मिथ्यादृशां दृष्टेर्विपर्यासात्कुतो भवेत् ? । ज्ञानादिगुणसद्भावो, यद् गुणस्थानतोच्यते ॥ ३६ ॥ अत्र ब्रूमः - भवेद्यद्यपि मिथ्यात्ववतामसुमतामिह । प्रतिपत्तिर्विपर्यस्ता, जिनप्रणीतवस्तुषु ॥ ३७ ॥ तथापि काचिन्मनुजपश्वादिवस्तुगोचरा । तेषामप्यविपर्यस्ता, प्रतिपत्तिर्भवेद् ध्रुवम् ॥ ३८ ॥ आस्तामन्ये मनुष्याचा, निगोददेहिनामपि । अस्त्यव्यक्तस्पर्शमात्रप्रतिपत्तिर्यथास्थिता ॥ ३९ ॥ यथा घनघनच्छन्नेऽर्केऽपि स्यात्काऽपि तत्प्रभा । अनावृत्ता न चेद्रात्रिदिनाभेदः प्रसज्यते । ॥ ४० ॥ इति प्रथमगुणस्थानं । आयमोपशमिकाख्यं, सम्यक्त्वस्यात्र सादयेत् । योऽनन्तानुबन्धिकषायोदयः | साऽऽयसादनः ॥ ४१ ॥ उत्कर्षादावलीषट्कात्, सम्यक्त्वमपगच्छति । अनन्तानुबन्ध्युदये, जघन्यात्समयेन Jain Education therational For Private & Personal Use Only १० १४ jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy