SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ॥ १ ॥ तत्र चतुःसमया त्वेवं-त्रसनाच्या बहिरधोलोकस्य विदिशो दिशम् । यात्येकेन द्वितीयेन, त्रसनाड्यन्तरे विशेत् ॥ २ ॥ ऊर्ध्वत तृतीयेन, चतुर्थे समये पुनः । त्रसनाड्या विनिर्गत्य दिश्यं स्वस्थानमाश्रयेत् ॥ ३ ॥ दिशो विदिशि याने तु, नाडीमाद्ये द्वितीयके । ऊर्ध्वं चाधस्तृतीये तु बहिर्विदिशि तुर्यके ॥ ४ ॥ यदोक्तरीत्या विदिशो, जायते विदिशि कचित् । तदा तत्समयाधिक्यात् स्यात्पञ्चसमया गतिः ॥ ५ ॥ उक्तं च- "विदिसाउ दिसं पढमे बीए पइसरह नाडिमज्झमि । उड्डुं तइए तुरिए उ नीइ विदिसं तु पंचमए ॥ ६ ॥” इति भगवतीवृत्तौ शतक १४ प्रथमोदेशके । भगवतीसप्तमशतकप्रथमोद्देशके तु पञ्चसामयिकीं विग्रहगतिमाश्रित्येत्थमुक्तं दृश्यते - इदं च सूत्रे न दर्शितं प्रायेणेत्थमनुत्पत्तेरिति । व्यवहारापेक्षया च भवेदाहारकोऽसुमान् । गतौ किलैकवक्रायां, समयद्वितयेऽपि हि ॥ ७ ॥ तथाहि समये पूर्वे, शरीरमेष उत्सृजेत् । तस्मिन्पुनस्तच्छरीरयोग्याः केचन पुद्गलाः ॥ ८ ॥ लोमाहारेण संबन्धमायान्ति जीवयोगतः । औदारिका दि पुद्गलादानं चाहार उच्यते ॥ ९ ॥ एवमत्राद्यसमये, आहारः परिभावितः । सर्वत्रैव द्विवक्रादावप्याचक्षण आहृतिः ॥ १० ॥ द्वितीयसमये चासावुत्पत्तिदेशमापतेत् । तदा तद्भवयोग्याणून यथासंभवमाहरेत् ॥ ११ ॥ द्विवा तु त्रिसमया, मध्यस्तत्र निराहृतिः । आद्यन्तयोः समययोराहारः पुनरुक्तवत् ॥ १२ ॥ एवं च त्रिचतुर्वक्रे, चतुःपञ्चक्षणात्मके । मध्यास्तयोर्निराहाराः, साहारावादिमान्तिमौ ॥ १३ ॥ यदाहु:-" इगदुतिचवक्कासुं दुगाइसमएस परभवाहारो । दुगवक्काइस समया इग दो तिन्नि उ अणाहारा ॥ १४ ॥ " निश्चय Jain Educamational For Private & Personal Use Only १० १४ www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy