SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. ३ सगे। २९ आहारे ऋजुवक गती ॥६३॥ गमे-संघातः परिशाटश्च, तौ द्वौ समुदिताविति । औदारिकादिदेहानां, प्रज्ञप्तं करणत्रयम् ॥ ८७॥ सर्वात्मना पुद्गलानामाचे हि ग्रहणं क्षणे । चरमे सर्वथा त्यागो, द्वितीयादिषु चोभयम् ॥८८॥ यथा तप्ततापिकायां, सस्नेहायामपूपकः । गृह्णाति प्रथमं लेहं, सर्वात्मना न तु त्यजेत् ॥ ८९॥ ततश्च किञ्चिद् गृह्णाति, स्नेहं किञ्चित्पुनस्त्यजेत् । संघातभेदरूपत्वात्पुद्गलानां खभावतः॥९०॥ तथैव प्रथमोत्पन्न:, प्राणभृत्प्रथमक्षणे। सर्वात्मनोत्पत्तिदेशस्थितान् गृह्णाति पुद्गलान् ॥ ९१ ॥ ततश्चाभवपर्यन्तं, द्वितीयादिक्षणेषु तु । गृहंस्त्यजंश्च तान् कुर्यात्, संघातपरिशाटनम् ॥ ९२॥ तत आयु समाप्तौ च, भाव्यायुम्प्रथमक्षणे । स्याच्छाट एव प्राग्देहपुद्गलानां न तु ग्रहः ॥९३ ॥ औदारिकवैक्रियाहारकेषु स्युस्त्रयोऽप्यमी । संघातपरिशाटः स्यात्तैजसे कार्मणे सदा ॥९४ ॥ अनादित्वाद्भवेन्नैव, संघातः केवलोऽनयोः । केवलः परिशाटश्च, संभवेन्मुक्तियायिनाम् ॥१५॥ अत्र च भूयान् विस्तरोऽस्ति स चावश्यकवृत्त्यादिभ्योऽवसेयः । अथ प्रकृतं-वक्रा गतिश्चतुर्धा स्यादरेकादिशभिर्युता । तत्राद्या द्विक्षणैकैकक्षणवृद्ध्या क्रमात्पराः ॥ ९६ ॥ तथाहि-यदो+लोकपूर्वस्या, अधः अयति || पश्चिमाम् । एकवक्रा द्विसमया, ज्ञेया वक्रा गतिस्तदा ॥९७॥ समणिगतित्वेन, जन्तुरेकेन यात्यधः । द्वितीयसमये तिर्यगुत्पत्तिदेशमाश्रयेत् ॥९८॥ पूर्वदक्षिणोर्ध्वदेशादधश्चेदपरोत्तराम् । व्रजेत्तदा द्विकुटिला, गतिस्त्रिसमयात्मिका ॥ ९९॥ एकेनाधस्समश्रेण्या, तिर्यगन्येन पश्चिमाम् । तिर्यगेव तृतीयेन, वायव्यां दिशि याति सः॥१०॥त्रसानामेतदन्तैव, वक्रा स्यान्नाधिका पुनः । स्थावराणां चतुःपञ्चसमयान्तापि सा भवेत् ॥६३॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy