SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ कस्याप्यनादिवं, नाचक्षुदर्शनं विना ॥७३॥ इति दर्शनं २७॥ चतुष्टयी दर्शनानां, घज्ञानी ज्ञानपञ्चकम् ।। अमी द्वादश निर्दिष्टा, उपयोगा बहुश्रुतैः॥ ७४ ॥ ज्ञानपञ्चकमज्ञानत्रयं साकारका अमी। उक्ताः शेषास्त्वनाकाराश्चतुर्दर्शनलक्षणाः ॥७५ ॥ इत्युपयोगाः २८। __ आहारकाः स्युश्छमस्थाः, सर्वे चक्रगति विना । त्रिचतु:समयान्ता स्यात्तत्रानाहारितापि च ॥७६॥ गतिर्द्विधा हि जन्तूनां, प्रस्थितानां परं भवम् । सरला कुटिला चापि, तकसमयाऽऽदिमा ॥ ७७॥ उत्पत्ति-1 देशो यत्र स्यात्समश्रेणिव्यवस्थितः। तत्रैकसमयेनैच, ऋजुगत्याऽसुमान् व्रजेत् ॥७८॥ परजन्मायुराहाली, क्षणेऽस्मिन्नेव सोऽनुते । तुल्यमेतहजुगती, निश्चयव्यवहारयोः॥७९॥ द्वितीयसमयेऽनृज्या, व्यवहारजया-18 श्रयात् । उदेति परजन्मायुरिदं तात्पर्यमत्र च ॥ ८॥ प्राग्भवान्त्यक्षणो वक्रपरिणामाभिमुख्यतः। कैश्चिद्वक्रादिसमयो, गण्यते व्यवहारतः॥ ८१॥ ततश्च-भवान्तरायसमये, गतेस्त्वस्मिन् द्वितीयके । समये परजन्मायुरुदेति खलु तन्मले ॥ ८२॥ यदाहु:-"उज्जुगइपढमसमए परभवियं आउअंतहाऽऽहारो । वकाइ बीअसमए परभविआउं उदयमेह ॥ ८३॥" निश्चयनयाश्रयाच्च-संमुखोऽङ्गी गतर्यद्यप्यन्त्यक्ष तथापि हि । सत्वात्पाग्भवसंबन्धिसंघातपरिशाटयोः ॥ ८४॥ समयः प्राग्भवस्यैष, संभवेन्न पुनर्गतेः । प्राच्याङ्गसर्वशाटोऽयभवाद्यक्षण एव यत् ॥ ८५॥ 'परभवपढमे साडोत्ति आगमवचनात् ॥ उदेति समयेऽत्रैव, गतिः सह तदायुषा । ततोऽन्यजन्मायुर्वक्रगतावप्यादिमक्षणे ॥८६॥ त्रिभिर्विशेषकं । तत्र संघातपरिशाटस्वरूपं चैवमा Jain Education International For Private & Personal Use Only alihinelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy