SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Jain Educa च विनापि स्याद्बोधः साकार एवं चेत् । तदैकसमयेनैव स्यादू घटादिविशेषचित् ॥ ५३ ॥ तथोक्तं तत्त्वार्थवृत्तौ - "औपचारिकनयश्च ज्ञानप्रकारमेव दर्शनमिच्छति, शुद्धनयः पुनरनाकारमेव संगिरते दर्शनं, आकारवच विज्ञानं, आकारश्च विशेषनिर्देशो भावस्य पर्यायतः प्रोक्तः, स च दर्शनसमनन्तरमेव संपद्यते, अन्तर्मुहूर्त्तकाल - भावित्वात्, आकारपरिज्ञानाच प्रागालोचनमवश्यमभ्युपेयम्, अन्यथा प्रथमत एव पश्यतः किमपीदमिति कुतोऽव्यक्तबोधनं स्यात् ?, यदि चालोचनमन्तरेणाकार परिज्ञानोत्पाद एवं पुंसः स्यात् तथा सत्येकसमयमात्रेण स्तम्भकुम्भादीन् विशेषान् गृह्णीयात् " इति ॥ सामान्येनावबोधो यश्चक्षुषा जायतेऽङ्गिनाम् । तचक्षुर्दर्शनं प्राहुस्तत्स्यादाचतुरिन्द्रियात् ॥ ५४ ॥ यः सामान्यावबोधः स्याच्चक्षुर्वर्जापरेन्द्रियैः । अचक्षुर्दर्शनं तत्स्यात्, सर्वेषामपि देहिनाम् ॥५५॥ तथोक्तं तत्त्वार्थवृत्तौ "चक्षुर्दर्शनमित्यादि, चक्षुषा दर्शनम् - उपलब्धिस्सामान्यार्थग्रहणं, स्कन्धावारोपयोग वत्तदहर्जातबालदार कनयनोपलब्धिवद्वा व्युत्पन्नस्यापि, अचक्षुर्द्दर्शनं-शेषेन्द्रियैः श्रोत्रा - दिभिः सामान्यार्थग्रहण" मिति ॥ येनावधेरुपयोगे, सामान्यमवबुध्यते । अवधिज्ञानिनामेव, तत्स्यादवधि| दर्शनम् ॥ ५६ ॥ यथैवमवधिज्ञाने, भवत्यवधिदर्शनम् । एवं विभङ्गेऽप्यवधिदर्शनं कथितं श्रुते ॥ ५७ ॥ अयं भावः- सम्यगहगवधिज्ञाने, सामान्यावगमात्मकम् । यथैतत्स्यात्तथा मिध्यादृग्विभङ्गेऽपि तद्भवेत् ॥ ५८ ॥ नाम्ना च कथितं प्राज्ञैस्तदप्यवधिदर्शनम् । अनाकारत्वाविशेषाद्वि भङ्ग दर्शनं न तत् ॥ ५९ ॥ अयं सूत्राभिप्रायः ॥ आहुः कार्मग्रन्धिकास्तु, यद्यपि स्तः पृथक् पृथक् । साकारेतरभेदेन विभङ्गावधिदर्शने ॥ ६०॥ तथापि mational For Private & Personal Use Only १० १४ www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy