SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. ३ सर्ग: ज्ञानादिपर्यवाः १५ प्येवं, ज्ञेया अनंतपर्यवाः॥३७॥ परंपर्यवास्तु सर्वत्र प्राग्वत् । अष्टाप्येतानि तुल्यानि, व्यपेक्ष्य स्वान्यपर्यवान् । यद्धक्ष्येऽल्पबहुत्वं तदपेक्ष्य स्खीयपर्यवान् ॥ ३८॥ तत्र स्युः सर्वतः स्तोका, मनःपर्यायपर्यवाः। मनोद्रव्यैकविषयमिदं ज्ञानं भवेद्यतः॥ ३९॥ एभ्योऽनन्तगुणाः किं च, विभङ्गज्ञानपर्यवाः । मनोज्ञानापेक्षया यद्विभङ्गविषयो महान् ॥४०॥ आरभ्य नवमग्रैवेयकादासप्तमक्षितिम् । ऊर्ध्वाधः क्षेत्रके तिर्यक, चासंख्यद्वीपवार्द्धिगे ॥४१॥ रूपिद्रव्याणि कतिचित्तत्पर्यायांश्च वेत्ति सः। अनन्तनास्ते च मनोज्ञानज्ञेयव्यपेक्षया ॥ ४२ ॥ समस्तरूपि. द्रव्याणि, प्रतिद्रव्यमसंख्यकान् । भावान्वेत्तीत्यनन्तना, विभङ्गापेक्षयाऽवधौ ॥४३॥ अनन्तगुणितास्तेभ्यः, श्रुताज्ञान इदं यतः । सर्वमूर्त्तामूलद्रव्यसर्वपर्यायगोचरम् ॥ ४४ ॥ श्रुताज्ञानाविषयाणां, केषाञ्चिद्विषयत्वतः। स्पष्टत्वाच श्रुतज्ञाने, तेभ्यो विशेषतोऽधिकाः॥४५॥ अभिलाप्यानभिलाप्यविषयेऽनन्तसंगुणाः। मत्यज्ञाने श्रुतज्ञानादभिलाप्यैकगोचरात् ॥ ४६ ॥ मतिज्ञानपर्यवाश्च, ततो विशेषतोऽधिकाः। मत्यज्ञानाविषयाणां, विषयत्वात् स्फुटत्वतः॥४७ ॥ तेभ्योऽप्यनन्तगुणिताः, केवलज्ञानपर्यवाः । सर्वाद्धाभाविनिखिलद्रव्यपर्यायभासनात् ॥४८॥ इति ज्ञानम् २६ ॥ द्विरूपं हि भवेद्वस्तु, सामान्यतो विशेषतः । तत्र सामान्यबोधो यस्तदर्शनमिहोदितम् ॥ ४९॥ यथा प्रथमतो दृष्टो, घटोऽयमिति बुध्यते । तद्दर्शनं तद्विशेष- बोधो ज्ञानं भवेत्ततः ॥५०॥ उपचारनयेनेदं, दर्शनं परिकीर्तितम् । विशुद्धनयतस्तच्चानाकारज्ञानलक्षणम् ॥५१॥ इदं साकारबोधात्मागवश्यमभ्युपेयते । अन्यथेदं किञ्चिदिति, स्यात्कुतोऽव्यक्तबोधनम् ? ॥५२॥ अनेन २५ २७ in Education a al For Private & Personel Use Only lugainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy