________________
mrate
नन्ता वा भवन्ति ते । अनन्ताः परपर्याया, अभ्यस्मिंस्ते तु पूर्ववत् ॥ २४ ॥ अथवा स्यात् श्रुतज्ञानं, श्रुतम-16) न्थानुसारतः। श्रुतग्रन्थश्चाक्षरात्मा, तान्यकारादिकानि च ॥ २५ ॥ तच्चैकैकमुदात्तानुदात्तस्वस्तिभेदतः। अल्पानल्पप्रयत्नानुनासिकात्यविशेषतः ॥ २६ ॥ संयुक्तासंयुक्तयोगद्व्यादिसंयोगभेदतः । आनन्त्याचाभिधेयानां, भिद्यमानमनन्तधा ॥ २७॥ केवलो लभतेऽकारः, शेषवर्णयुतश्च यान् । ते सर्वेऽस्य स्वपर्यायास्तदन्ये परपर्यवाः॥२८॥ एवं-च अनन्तखान्यपर्यायमेकैकमक्षरं श्रुते। पर्यायास्तेऽखिलद्रव्यपर्यायराशिसम्मिताः॥२९॥ आह च-"एकेकमक्खरं पुण सपरपज्जायभेयओ भिन्नं । तं सबदवपज्जायरासिमाणं मुणेयत्वं ॥३०॥ जे लहहाहा केवलो से सवण्णसहिओ अ पनवेगारो।ते तस्स सपज्जाया सेसा परपज्जवा लस्स ॥३१॥" अयं भावा-यान्पायान केवलोऽकारः शेषवर्णसहितश्च लभते ते तस्य स्खपर्यायाः, शेषाः-शेषवर्णसंबन्धिनो घटाद्यपरपदार्थसंकन्धिनश्च परपर्यायास्तस्य-अकारस्येति । एवंविधानेकवर्णपर्यायौधैः समन्वितम् । ततश्चानन्तपर्यायं, श्रुतज्ञानं श्रुतं श्रुते ॥ ३२ ॥ अथावधेः स्वपर्याया, विविधा या भिदोऽवधेः। क्षायोपशमिकभवप्रत्ययादिविभेदतः ॥ ३३ ॥ तिर्यगनैरयिकखर्गिनरादिखामिभेदतः। अनन्तभित्स्वविषयद्रव्यपर्यायभेदतः ॥ ३४॥ असंख्यभित्स्वविषयक्षेत्राद्धाभेदतोऽपि च । निर्विभागैर्विभागैश्च, ते चैवं स्युरनन्तकाः ॥३५॥ एवं मनःपर्यवस्य, केवलस्य च पर्यवाः। निर्विभागैर्विभागैः स्वैः, खाम्यादिभेदतोऽपि च ॥३६॥ अनन्तद्रव्यपर्यायज्ञानाच स्युरनन्तकाः। अज्ञानत्रितयेऽ
लो.प्र.११
Jain Educati Ganational
For Private & Personel Use Only
lowrjainelibrary.org