________________
लोक. द्रव्य. ३ सर्गः
॥ ६० ॥
Jain Education
सर्वेषां पर्यवा द्वेधा, स्वकीयापर भेदतः । स्वधर्मरूपास्तव खे, परधर्मात्मकाः परे ॥ १३ ॥ क्षयोपशमवैचित्र्या| न्मतेरवग्रहादयः । अनन्तभेदाः षट्स्थानपतितत्वाद्भवन्ति हि ॥ १४ ॥ षट्स्थानानि चैवं संख्येया संख्येयानन्तभागैर्वृद्धिर्यथाक्रमम् । संख्येया संख्येयानन्तगुणैर्वृद्धिरितीह षट् ॥ १५ ॥ अनन्तासंख्य संख्यानामनन्तासंख्यसंख्यकाः । भेदाः स्युरित्यनन्तास्ते, मतिज्ञानस्य पर्यवाः ॥ १६ ॥ निर्विभागैः परिच्छेदैछिन्नं कल्पनयाथवा । अनन्तखण्डं भवतीत्यनन्ता मतिपर्यवाः ॥ १७ ॥ खेभ्योऽनन्तगुणा ये च सन्त्यर्थान्तरर्पयवाः । यतस्तेऽत्रोपयुज्यन्ते, ततस्तेऽप्यस्य पर्यवाः ॥ १८ ॥ यद्यप्यस्मिन्नसंबद्धास्तथाप्यस्योपयोगतः । तेऽदसीया असं| बद्धखोपयोगिधनादिवत् ॥ १९ ॥ आह च - "जइ ते परपज्जाया, न तस्स अह तस्स न परपज्जाया । आचार्यः प्राह-जं तंमि असंबद्धा, तो परपज्जायववदेसो ॥ २० ॥ चाय सपज्जाय विसेसणाइणा तस्स जमुवजुजंति । सघणमिवासंबद्धं, हवंति तो पज्जवा तस्स ॥ २१ ॥ चाय'त्ति त्यागेन खपर्याय विशेषणादिना च परपर्याया घटादिपर्याया येन कारणेन तस्य ज्ञानस्योपयुज्यन्ते - उपयोगं यान्ति यतो घटादिसकलवस्तुपर्यायपरित्याग एव | ज्ञानादिरर्थः सुज्ञातो भवतीति सर्वे पर्यायाः परित्यागमुखेनोपयुज्यन्ते, तथा परपर्यायसद्भाव एव एते खप यया इति विशेषयितुं शक्या इति खपर्यायविशेषणेन परपर्याया उपयुज्यन्त इतितात्पर्यं ॥
श्रुतेऽप्यनन्ताः पर्यायाः प्रोक्ताः खपरभेदतः । खीयास्तत्र च निर्दिष्टास्तेऽक्षरानक्षरादयः ॥ २२ ॥ क्षयोपशमवैचित्र्याद्विषयानन्त्यतश्च ते । श्रुतानुसारिबोधानामानन्त्यात्स्युरनन्तकाः ॥ २३ ॥ अविभागपरिच्छेदैर
For Private & Personal Use Only
अन्तरं ज्ञानपर्याय
ल्पबहुत्वं च १५
88
२५
॥ ६० ॥
२८
jainelibrary.org