SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सा चैवं परिभाव्यते ॥९७ ॥ जन्तोर्धष्टस्य सम्यक्त्वात्, पुनरन्तर्मुहूर्ततः । सम्यक्त्वलब्धौ लध्वी स्यादज्ञानद्वितयस्थितिः॥९८॥ अनन्तकालचक्राणि, कालतः परमा स्थितिः । देशोनं पुद्गलपरावर्ती क्षेत्रतस्तु सा ॥ ९९ ॥ भावना-सम्यक्त्वतः परिभ्रश्य, वनस्पत्यादिषु भ्रमन् । सम्यत्तवं लभतेऽवश्यं, कालेनैतावता] पुनः॥ १०॥ जघन्या स्वेकसमयं, विभङ्गस्य स्थितिः किल । उत्पद्य समयं स्थित्वा, भ्रश्यतः सा पुनर्भवेत् | ॥१॥ त्रयस्त्रिंशत्सागराणि, विभङ्गावस्थितिगुरुः । देशोनया पूर्वकोव्याऽधिकानि तत्र भावना ॥२॥ देशोनपूर्वकोव्यायुः, कश्चिदङ्गी विभङ्गवान् । ज्येष्ठायुरप्रतिष्ठाने, तिष्ठेद्विभङ्गसंयुतः॥३॥ इति ज्ञानस्थितिः। अथान्तरं-मत्यादिज्ञानतो भ्रष्टः, पुनः कालेन यावता । ज्ञानमामोति मत्यादिज्ञानानामन्तरं हि तत् ॥४॥ अनन्तकालचक्राणि, कालदः स्यान्मतिश्रुते। देशोनं पुद्गलपरावर्तार्द्ध क्षेत्रतोऽन्तरम् ॥५॥ एवमेवावधिमनःपर्यायज्ञानयोः परम् । अन्तर्मुहर्तमानं च, सर्वेष्वेष्वन्तरं लघु ॥६॥ केवलस्यान्तरं नास्ति, साद्यनन्ता हि तत्स्थितिः। अनाद्यन्तानादिसान्तेऽज्ञानदयेऽपि नान्तरम् ॥७॥ सादिसान्ते पुनस्तत्राधिकाः षट्षष्टिसागरा। इयमुत्कृष्टसम्यक्त्वस्थितिरेव तदन्तरम् ॥८॥ अन्तरं स्थाद्विभङ्गस्य, ज्येष्ठं कालो वनस्पतेः । अन्तर्मुहूर्तमेतेषु, त्रिषु ज्ञेयं जघन्यतः॥९॥ स्तोका मनोज्ञा अवधिमन्तोऽसंख्यगुणास्ततः। मतिश्रुतज्ञानवन्तो, मिथस्तुल्यास्ततोऽधिकाः॥१०॥ असंख्येयगुणास्तेभ्यो, विभङ्गज्ञानशालिनः। केवलज्ञानिनोऽनन्तगुणास्तेभ्यः प्रकी|र्तिताः॥११॥ तदनन्तगुणास्तुल्या, मिथो यज्ञानवर्तिनः अप्यष्टखेषु पर्याया, अनन्ताः कीर्त्तिता जिनः ॥१२॥ Jain Education a l For Private Personel Use Only nelibrary.org LON
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy