________________
लोक. द्रव्य. ३ सर्गः
॥ ५९ ॥
दिज्ञानसंभवः ॥ ८२ ॥ इत्यादि प्रायोऽर्थतस्तत्त्वार्थ भाष्यवृत्तिगतं । अथ ज्ञानस्थितिद्वेधा, प्रज्ञप्ता परमेश्वरैः । साधनन्ता सादिसान्ता, तत्राद्या केवलस्थितिः ॥ ८३ ॥ शेषज्ञानानां द्वितीया, तत्राद्यज्ञानयोर्लघुः । अन्तमुहूर्त्तमुत्कृष्टा, षट्षष्टिः सागराणि च ॥ ८४ ॥ इयं चैवं वयस्त्रिंशद्वार्द्धिमानौ, भवौ द्वौ विजयादिषु । द्वाविंशत्यब्धिमानान् वा, भवांस्त्रीनच्युतादिषु ॥ ८५ ॥ कृत्वोत्कर्षाच्छिवं यायात्, सम्यक्त्वमथवा त्यजेत् । सातिरेका नरभवैः, षट्षष्टिर्वार्द्धयस्तदा ॥ ८६ ॥ यदाहु:- "दो वारे विजयाइसु गयस्स तिन्नचुए अहव ताई । अइरेगं नरभवियं, नाणाजीवाण सङ्घद्धं ॥ ८७ ॥ अथोत्कृष्टावधिज्ञानस्थितिरेषैव वर्णिता । जघन्या चैकसमयं, सा त्वेवं परिभाव्यते ॥ ८८ ॥ यदा विभङ्गकज्ञानी, सम्यक्त्वं प्रतिपद्यते । तदा विभङ्गसमये, तस्मिन्नेवा | वधिर्भवेत् ॥ ८९ ॥ क्षणे द्वितीये तद् ज्ञानं, चेत्पतेन्मरणादिना । तदा जघन्या विज्ञेयाऽवधिज्ञानस्थितिर्बुधैः ॥९०॥ संयतस्याप्रमत्तत्वे, वर्त्तमानस्य कस्यचित् । मनोज्ञानं समुत्पद्य, द्वितीयसमये पतेत् ॥ ९९ ॥ एवं मनः पर्यवस्य, स्थितिर्लघ्वी क्षणात्मिका । देशोना पूर्वकोटी तु महती साऽपि भाव्यते ॥ ९२ ॥ पूर्वकोट्यायुषो दीक्षाप्रतिपत्तेरनन्तरम् । मनोज्ञाने समुत्पन्ने, यावज्जीवं स्थिते च सा ॥ ९३ ॥ तत्र च — स्थितिर्लघ्वी ऋजुमतिमनोज्ञानव्यपेक्षया । अन्यत्वप्रतिपातित्वादाकैवल्यं हि तिष्ठति ॥ ९४ ॥ केवलिस्थितिरुक्तैव, साद्यनन्तेत्यनन्तरम् । |मत्यज्ञानश्रुताज्ञानस्थितिस्त्रेधा भवेदथ ॥ ९५ ॥ अनाद्यनन्ताऽभव्यानां, भव्यानां द्विविधा पुनः । अनादिसान्ता साद्यन्ता, तत्राद्या ज्ञानसंभवे ॥ ९६ ॥ सादिसान्ता पुनर्द्वैधा, जघन्योत्कृष्टभेदतः । जघन्याऽन्तर्मुहूर्त्तं स्यात्,
Jain Education International
For Private & Personal Use Only
ज्ञानानां सहभावः
ज्ञानस्थितिथ
१५
२०
२५
॥ ५९ ॥
२८
www.jainelibrary.org