SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Jain Education संभवेत् । न श्रुतज्ञानमपि यत्तन्मतिज्ञानपूर्वकम् ॥ ६९ ॥ रूपिद्रव्यैकविषये, न तृतीयतुरीयके । लोकालोकविषयकज्ञानस्य सर्ववेदिनः ॥ ७० ॥ क्षयोपशमजान्यन्यान्यन्त्यं च क्षायिकं मतम् । सहभावस्तदेतेषां पश्चानामेति नौचितीम् ॥ ७१ ॥ कटे सत्युपकल्प्यन्ते, जालकान्यन्तराऽन्तरा । मूलतः कटनाशे तु, तेषां व्यवहृतिः कुतः ॥ ७२ ॥ किंच - ज्ञानदर्शनयोरेवोपयोगौ स्तो यथाक्रमम् । अशेषपर्यायद्रव्यबोधिनोः सर्ववेदिनः ॥ ७३ ॥ एकस्मिन् समये ज्ञानं, दर्शनं चापरक्षणे । सर्वज्ञस्योपयोगौ द्वौ, समयान्तरितौ सदा ॥ ७४ ॥ तथाहु:- "नामि दंसणंमि य, एतो एकतरयंमि उवउत्ता । सङ्घस्स केवलिस्सवि, जुगवं दो नत्थि उगओगा ॥ ७५ ॥" इदं सैद्धान्तिक मतं, तार्किकाः केचनोचिरे । स्यातामेवोपयोगौ द्वावेकस्मिन् समयेऽर्हतः ॥ ७६ ॥ अन्यथा कर्मण इव, स्यादावारकता मिथः । एकैकस्योपयोगस्यान्योपयोगोदयद्रुहः ॥ ७७ ॥ यचैतयोः साद्यनन्ता, स्थितिरुक्तोपयोगयोः । व्यर्था स्यात्साऽप्यनुदयादेकैकसमयान्तरे ॥ ७८ ॥ अन्ये च केचन प्राहुर्ज्ञानदर्शनयोरिह । नास्ति केवलिनो भेदो, निःशेषावरणक्षयात् ॥ ७९ ॥ ज्ञानैकदेशः सामान्यमात्रज्ञानं हि दर्शनम् । तत्कथं देशतो ज्ञानं, संभवेत्सर्ववेदिनः १ ॥ ८० ॥ इत्यादि, उक्तं च- "केई भांति जुगवं जाणइ पासइ य | केवली नियमा । अन्ने एगंतरियं, इच्छन्ति सुअवएसेणं ॥ १ ॥ अन्ने न चेव वीसुं, दंसणमिच्छति जिणवरिंदस्स । जं चिय केवलनाणं, तं चिय से दंसणं बिंति ॥ ८१ ॥” अत्र च भूयान् युक्तिसंदर्भोऽस्ति स तु नन्दीवृत्तिसम्मत्यादिभ्योऽवसेयः । अथ प्रकृतं विनैताभ्यां परः कश्चिन्नोपयोगोऽर्हतां मतः । ततः कथं भवेत्तेषां मत्या For Private & Personal Use Only १० १४ v.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy