________________
अत एव मतिज्ञाने, सम्यक्त्वदलिकान्वितः । योऽपायांशः स प्रमाणं, स्यात्पौद्गलिकसदृशाम् ॥५०॥ प्रक्षीणसप्तकानां चापायांश एव केवल । प्रमाणमप्रमाणं चावग्रहाद्या अनिर्णयात् ॥५१॥ अयं च तत्त्वार्थवृत्त्याद्यभिप्रायो, रत्नाकरावतारिकादौ च मतिज्ञानस्य तद्भेदानां अवग्रहादीनां च सांव्यावहारिकप्रत्यक्षप्रमाणत्वमुक्तं, तथा च तद्वन्थ:-"अवग्रहश्चेहा चावायश्च धारणा च ताभिर्भेदो-विशेषस्तस्मात्प्रत्येकमिन्द्रियानिन्द्रियनिबन्धनं प्रत्यक्षं चतुर्भेदमिति" श्रुतज्ञानेऽप्यपायांशा, प्रमाणमनया दिशा । निमित्तापेक्षणादेते, परोक्षे इति कीर्तिते ॥५२॥ परोक्षं बनलज्ञानं, धूमज्ञाननिमित्तकम् । लोके तद्वदिमे ज्ञेये, इन्द्रियादिनिमित्तके ॥५३॥ इदं च निश्चयनयापेक्षया व्यपदिश्यते । प्रत्यक्षव्यपदेशोऽपि, व्यवहारान्मतोऽनयोः॥५४॥ तथोक्तंनन्द्यां-"तं समासओ दुविहंपण्णत्तं, तं०-इंदियपच्चक्खं च नोइंदियपच्चक्खं च इत्यादि", ननु च-प्रत्यक्षमनुमानं चागमश्चेति त्रयं विदुः। प्रमाणं कापिला आक्षपादास्तत्रोपमानकम् ॥५५॥ मीमांसकाः षडापत्यभावाभ्यां सहोचिरे । द्वे त्रीणि वा काणभुजा, द्वे बौद्धा आदितो विदुः ॥५६॥ एक च लोकायतिकाः, प्रमाणानीत्यनेकधा । परैरुक्तानि किं तानि, प्रमाणान्यथवाऽन्यथा ? ॥५७॥ अत्रोच्यते-एतान्यायज्ञानयुग्मेऽन्तर्भूनान्यखिलान्यपि । इन्द्रियार्थसंन्निकर्षनिमित्तकतया किल ॥५८॥ अप्रमाणानि वाऽमूनि, मिथ्यादर्शनयोगतः । असद्बोधव्यापृतेश्चोन्मत्तवाक्यप्रयोगवत् ॥ ५९ ॥ पश्चानामप्यथैतेषां, सहभावो विचार्यते । एक द्वे वीणि चत्वारि, स्युः सहकत्र देहिनि ॥६०॥ तथाहि-प्राप्तं निसर्गसम्यक्त्वं, येन स्यात्तस्य केवलम् ।
१४
Jan Ed S
emana
For Private
Personal use only
Doww.jainelibrary.org