________________
ह्ययम् । विषयं क्षेत्रतोऽधास्य ब्रवीमि ऋजुधीरिह ॥ २६ ॥ अधस्तिर्यग्लोकमध्याद्वेत्ति रत्नप्रभाक्षितौ । ऋजुधीयजनसहस्रान्तं संज्ञिमनांस्यसौ ॥ २७ ॥ ज्योतिश्चक्रोपरितलं, यावदूर्द्धं स वीक्षते । तिर्यक्क्षेत्रं द्विपाथोधसार्घद्वीपद्वयात्मकम् ॥ २८ ॥ उक्तं क्षेत्रं विपुलधीर्निर्मलं वीक्षते तथा । विष्कम्भायामबाहल्यैः, सार्द्धद्रयङ्गुलसाधिकम् ॥ २९ ॥ अयं भगवतीसुतवृत्तिराजप्रश्नीयवृत्तिनन्दी सूत्र नन्दी मलयगिरी यवृत्तिविशेषावश्यकवृत्तिकर्मग्रन्थवृत्त्याद्यभिप्रायः । सामान्यं घटादिवस्तुमात्र चिन्तन परिणामग्राहि किञ्चिदविशुद्धतरमर्धतृतीयाङ्गुलहीन मनुष्यक्षेत्रविषयं ज्ञानं ऋजुमतिलब्धिः, संपूर्ण मनुष्य क्षेत्र विषयं विपुलमतिलब्धिरिति तु प्रवचनसारोद्धारवृत्त्योपपातिकवृत्त्योर्लिखितं, अर्धतृतीयद्वीपसमुद्रेष्वर्ध तृतीयाङ्गुलहीनेषु संज्ञिमनांसि ऋजुमतिर्जानाति, विपुलमतिरर्घतृतीयैरङ्गुलैरभ्यधिकेष्विति चार्थतः श्रीज्ञानसागरसूरिकृतावश्यकावचूर्णौ । ऋजुधीः कालतः पल्यासंख्य भागं जघन्यतः । अतीतानागतं जानात्युत्कर्षादपि तन्मितम् ||३०|| तावत्कालभूतभाविमनः पर्यायबोधतः । तावन्तमेव विपुलधीस्तु पश्यति निर्मलम् ॥ ३१ ॥ सर्वभावानन्तभागवर्तिनोऽनन्तपर्यवान् । ऋजुधीर्भावतो वेत्ति, विपुलस्तांश्च निर्मलान् ॥ ३२ ॥ इति मनःपर्यायविषयः ॥
heat द्रव्यतः सर्वं द्रव्यं मूर्त्तममूर्त्तकम् । क्षेत्रतः सकलं क्षेत्रं, सर्वं कालं च कालतः ॥ ३३॥ भावतः सर्वपर्यायान् प्रतिद्रव्यमनन्तकान् । भावतो भाविनो भूतान्, सम्यग् जानाति पश्यति ॥ ३४ ॥ विहायः कालयोः सर्वद्रव्येषु संगतावपि । पृथगुक्तिः पुनः क्षेत्रकालज्येति चिन्त्यताम् ॥ ३५ ॥ इति केवलज्ञानविषयः ।
Jain Education International
For Private & Personal Use Only
५
१०
१४
ainelibrary.org