________________
"मच्छो महल्लकाओ, संखित्तो जो उ तीहि समएहिं । स किर पयत्तविसेसेण, सण्हमोगाहणं कुणइ ॥१॥ सण्हयरा सण्हयरो, सुहुमो पणओ जहन्नदेहो य । स बहुविसेसविसिहो, सण्हयरो सबदेहेसु ॥९८॥ पढमवितीय(तीएइ)सण्हो, जायइथूलो चउत्थयाईसुतिइयसमयंमि जुग्गो, गहिओ तो तिसमयाहारो॥१९॥" अलोके लोकमात्राणि, पश्यत्खण्डान्यसंख्यशः। उत्कृष्टतोऽवधिज्ञानविषयः शस्यपेक्षया ॥९००॥ असंख्यभागमावल्या, जघन्यादेष पश्यति । उत्सर्पिण्यवसर्पिण्य, उत्कर्षेण वसंख्यकाः॥१॥ अतीता अपितावत्यस्तावत्योऽनागता अपि । तावत्काले भूतभाविरूपिद्रव्यावबोधतः ॥२॥ पर्यायान् भावतोऽनन्तानेष वेत्ति जघन्यतः। आधारद्रव्यानन्त्येन, प्रतिद्रव्यं तु नो यतः॥३॥ उत्कर्षतोऽपि पर्यायाननन्तान् वेत्ति पश्यति । सर्वेषां पर्यवाणां चानन्तेऽशे तेऽपि पर्यवाः॥४॥ अथावधैर्विषययोर्नियमः क्षेत्रकालयोः। मिथो विभाव्यते वृद्धिमाश्रत्य श्रुतवर्णितः॥५॥ अङ्गुलस्यासंख्यभागं, क्षेत्रतो यो निरीक्षते । आवल्यसंख्येयभागं, कालतः स निरीक्षते ॥६॥ प्रमाणाङ्गुलमत्राहुः, केचित्क्षेत्राधिकारतः। अवधेरधिकाराच्च, केचनात्रोच्छ्रयाङ्गलम् ॥७॥ यश्चाङ्गुलस्य संख्येयं, क्षेत्रतो भागमीक्षते । आवल्या अपि संख्येयं, कालतोऽशंस वीक्षते ॥८॥ संपूर्णमङ्गुलं यस्तु, क्षेत्रतो वीक्षते जनः । पश्येदावलिकान्तः स, कालतोऽवधिचक्षुषा ॥९॥ पश्यन्नावलिका पश्येदङ्गलानां पृथक्त्वकम् । क्षेत्रतो हस्तदर्शी च, मुहर्त्तान्तः प्रपश्यति ॥१०॥ कालतो भिन्नदिनहग , गव्यूतं क्षेत्रमीक्षते । योजनक्षेत्रदर्शी च, भवेदिनपृथक्त्वहक॥ ११ ॥ कालतो भिन्नपक्षी, पंचविंशतियो
Jain Educa
t ional
For Private & Personel Use Only
Knw.jainelibrary.org