SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ किंतु तद्गतनिःशेषविशेषापेक्षयाऽस्फुटान् । एष धर्मास्तिकायादीन, पश्येत्सर्वात्मना तु न ॥ ७६॥ योग्यदेशस्थितान् शब्दादींस्तु जानाति पश्यति । श्रुतभांवितया बुद्ध्या, सर्वद्रव्याणि वेत्ति वा ॥ ७७॥ लोकालोको क्षेत्रतश्च, कालतस्त्रिविधं च तम् । सर्वाद्धां वा भावतस्तु,भावानौदयिकादिकान् ॥ ७८॥ आह च भाष्यकार:"आएसोत्ति पगारो, ओघादेसेण सव्वदचाई। धम्मत्थिकाइयाई, जाणइ न उ सबभावेणं ॥ ७९ (१)॥खेत्तं || लोगालोगं, कालं सबद्धमहव तिविहंपि । पंचोदइयाईए, भावे जन्नेयमेवइयं ॥१(२)॥ आएसोत्ति व सुत्तं, सुओवलद्धेसु तस्स मइनाणं। पसरइ तब्भावणया, विणावि सुत्ताणुसारणं॥८०(३)॥"तत्त्वार्थवृत्तावप्युक्तं-"मतिज्ञानी तावत् श्रुतज्ञानोपलब्धष्वर्थेषु यदाऽक्षरपरिपाटीमन्तरेण स्वभ्यस्तविद्यो द्रव्याणि ध्यायति तदा मतिज्ञानविषयः सर्वद्रव्याणि, न तु सर्वान् पर्यायान् अल्पकालविषयत्वान्मनसश्चासक्ते"रिति । इति मतिज्ञानविषयः॥ भावश्रुतोपयुक्तः सन्, जानाति श्रुतकेवली । दशपूर्वादिभृद् द्रव्याण्यभिलाप्यानि केवलम् ॥ ८१॥ यद्यप्यभिलाप्यार्थानंतांशोऽस्ति श्रुते तथाप्यते । सर्वे स्युः श्रुतविषयः, प्रसङ्गतोऽनुप्रसङ्गाच ॥८२ ॥ यथाहुःपन्नवणिजा भावा, अणंतभागो उ अणभिलप्पाणं । पन्नवणिजाणं पुण, अणंतभागो सुअनिबद्धो ॥१॥ तथा-श्रुतानुवर्तिमनसा, ह्यचक्षुर्दर्शनात्मना । दशपूर्वादिभृद् द्रव्याण्यभिलाप्यानि पश्यति ॥ ८३ ॥ तदारतस्तु भजना, विज्ञेया धीविशेषतः। वृद्धस्तु पश्यतीत्यत्र, तत्त्वमेतन्निरूपितम् ॥ ८४ ॥ सर्वात्मनाऽदर्शनेऽपि,४|| १ ओघार्थके आदेशशब्दे । २ श्रुतमर्थो यदा आदेशशब्दस्य । ३ चतुर्दशपूर्वविदः श्रुतकेवलिनः । 20299999999998OD लो.प्र.१० S Jain Education Interational For Private & Personel Use Only www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy