SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ लोक. द्रव्य. ३ सर्गः ॥ ५४ ॥ । Jain Educatio च्छेदि शुद्धतरं परम् ॥ ६४॥ कस्यचिन्न पतत्याद्यं, कस्यचिच्च पतत्यपि । अत्यं चाकेवलप्रासेर्न पतत्येव तिष्ठति ॥ ६५ ॥ तथोक्तं तस्वार्थवृत्तौ यस्य पुनर्विपुलमतिर्मनः पर्यायज्ञानं समजनि तस्य न पतत्या केवलप्राप्तेरिति । एतत्सूत्रेऽपि 'विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः' (१-२५) इति ॥ योगशास्त्रप्रथमप्रकाशवृत्तावपि - "ऋजुश्च विपुलश्चेति, स्यान्मनः पर्यवो द्विधा । विशुद्ध्यप्रतिपाताभ्यां विपुलस्तु विशिष्यते ॥ १ ॥” इति मनःपर्यायज्ञानम् ॥ केवलं यन्मतिज्ञानाद्यन्यज्ञानानपेक्षणात् । ज्ञेयानन्त्यादनन्तं वा, शुद्धं चावरणक्षयात् ॥ ६६ ॥ सकलं वाऽऽदिल एव, निःशेषावरणक्षयात् । अनन्यसदृशत्वेनाथवाऽसाधारणं भवेत् ॥ ६७ ॥ भूतभाविभवद्भावस्वरूपोद्दीपकं स्वतः । तद् ज्ञानं केवलज्ञानं, केवलज्ञानिभिर्मतम् ॥ ६८ ॥ इति केवलज्ञानम् ॥ कुत्सितं ज्ञानमज्ञानं, कुत्सार्थस्य नञोऽन्वयात् । कुत्सितत्वं तु मिथ्यात्वयोगात् तत्रिविधं पुनः॥ ६९ ॥ मत्यज्ञानं श्रुताज्ञानं, विभङ्गज्ञानमित्यपि । अथ खरूपमेतेषां दर्शयामि यथाश्रुतम् ॥ ७० ॥ मतिज्ञानश्रुतज्ञाने, एव मिथ्यास्वयोगतः । अज्ञानसंज्ञां भजतो, नीचसङ्गादिवोत्तमः ॥ ७१ ॥ तथोक्तम् - " अविसेसिया मइ चिय, समद्दिट्ठिस्स सा महन्नाणं । महअन्नाणं मिच्छादिट्ठिस्स सुअंपि एमेव” ॥१॥ भंगा विकल्पा विरुद्धाः, स्युस्तेऽत्रेति विभङ्गकम् । विरूपो वाऽवधेर्भङ्गो, भेदोऽयं तद्विभङ्गकम् ॥ ७२ ॥ एतच्च ग्रामनगरसन्निवेशादिसंस्थितम् । समुद्रद्वीपवृक्षादि| नानासंस्थान संस्थितम् ॥ ७३ ॥ अष्टानामप्यथैतेषां विषयान् वर्णयाम्यहम् । द्रव्यक्षेत्र कालभावैर्द्रव्यतस्तत्र कथ्यते ॥ ७४ ॥ सामान्यतो मतिज्ञानी, सर्वद्रव्याणि बुध्यते । विशेषतोऽपि देशादि भेदैस्तानवगच्छति ॥ ७५ ॥ stional For Private & Personal Use Only चतुर्थ पञ्चमज्ञाने १५ && ॥ ५४ ॥ २५ २६ gainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy