SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ eeeeeeeeeeeee मिभेदतः। तद् द्विभेदं संयतस्याप्रमत्तस्यर्द्धिशालिनः॥५१॥ अनेन चिन्तितः कुम्भ, इति सामान्यग्रा| हिणी । मनोद्रव्यपरिच्छित्तिर्यस्यासावृजुधीः श्रुतः॥५२॥ अनेन चिन्तितः कुम्भा, स सौवर्णः स माथुर इयत्प्रमाणोऽद्यतन:, पीतवर्णः सदाकृतिः॥५३॥ एवं विशेषविज्ञाने, मतिर्यस्य पटीयसी। ज्ञेयोऽयं विपुलसामतिर्मनःपर्यायलब्धिमान् ॥५४॥ युग्मम् । ननु च-अवधिश्च मन:पर्यवश्चोभे अप्यतीन्द्रिये । रूपिद्रव्यविषये च, साभेदस्तदिह कोऽनयोः?॥५५॥ अत्रोच्यतेऽवधिज्ञानमुत्कर्षात्सर्वलोकवित् । संयतासंयतनरतिर्यक्वामिक मीरितम् ॥५६॥ अन्यद्विशदमेतस्माद्वहुपर्यायवेदनात् । अप्रमत्तसंयतैकलभ्यं नृक्षेत्रगोचरम् ॥ ५७ ॥ उक्तं च तत्त्वार्थभाष्ये-विशुद्धिक्षेत्रवामिविषयेभ्योऽवधिमनःपर्यवयोर्विशेष इति'। सामान्यग्राहि ननु यन्मनःपर्यायमादिमम् । तदस्य दर्शनं किं न, सामान्यग्रहणात्मकम् ॥५८॥ अत्रोच्यते-विशेषमेकं द्वौ बीन्वा, गृह्णात्यजुमतिः किल । ईष्टे बहून् विशेषांश्च, परिच्छेत्तुमयं न यत् ॥ ५९॥ सामान्यग्राह्यसौ तस्मात्, स्तोकग्राहितया भवेत् । सामान्यशब्दः स्तोकार्थो, नत्वत्र दर्शनार्थकः ॥६०॥ कर्मक्षयोपशमजोत्कर्षाद्विपुलधीः पुनः। बहून् विशेषान् वेत्त्यत्र, बह्वथों विपुलध्वनिः ॥६१॥ नचाभ्यधायि सिद्धान्ते, कुत्राप्येतस्य दर्शनम् । दर्शनात्मकसामान्यग्राहिता नैतयोस्ततः ॥ ६२॥ विशेषरूपग्राहित्वे, प्राप्त नन्वेवमेतयोः । द्वयोर्मनोविषययोदैविध्ये किं निबन्धनम् ? ॥ ६३॥ अत्रोच्यते-अल्पपर्यायवेद्याचं, घटादिवस्तुगोचरम् । नानाविधविशेषाव १ एतावान् सूत्रभागः (१-२६) २' विशुद्धयप्रतिपाताभ्यां विशेष इति तद्विशेषः (१-२५) इत्यतोऽनुवृत्तं ३ जातिसूचकः, 9.99298990000000 Jain Educatiferational For Private & Personel Use Only ww.jainelibrary.org ION
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy