________________
अवधि
भेदा:
S
लोक द्रव्य.
संख्यशः।यावल्लोकमपि दृष्ट्वा, पतति प्रतिपाति तत् ॥४५॥ प्रमादेन पतत्येतद्भवान्तराश्रयेण वा । यथा३ सर्गः
श्रुतं खरूपं च, वक्ष्येऽथाप्रतिपातिनः ॥४६॥ यत्प्रदेशमलोकस्य, द्रष्टुमेकमपि क्षमम् । तत्स्यादप्रतिपात्येव, ९ केवलं तदनन्तरम् ॥४७॥ हीयमानप्रतिपातिनोश्चायं विशेष:-प्रतिपाति हि निर्मूलं, विध्यायत्येकहेलया।
हीयमानं पुनर्वासमुपयाति शनैः शनैः ॥४८॥ इदं कर्मग्रन्थवृत्त्यभिप्रायेण, तत्त्वार्थभाष्ये तु-अनवस्थितावस्थिताख्ययोरन्त्यभेदयोरेवं स्वरूपमुक्तम्-अनवस्थितं हीयते वर्द्धते च वर्द्धते हीयते च प्रतिपतति चोत्पद्यते साचेति पुन: पुनरुम्मिवत्, अवस्थितं यावति क्षेत्र उत्पन्नं भवति ततो न प्रतिपतति आकेवलप्राप्तेरवतिष्ठते,
आभवक्षयादा जात्यन्तरस्थायि वा भवति, लिङ्गवत्, यथा लिङ्ग-पुरुषादिवेदमिह जन्मन्युपादाय जन्मान्तरं याति जन्तुस्तथाऽवधिज्ञानमपीति भावः ॥ नृतिरश्चामयं षोढा, क्षायोपशमिकोऽवधिः । भवेद्भवप्रत्ययश्च, देवनारकयोरिह ॥१॥ तदुक्तं-द्विविधोऽवधिर्भवप्रत्ययः क्षयोपशमनिमित्तश्चेति तत्त्वार्थसूत्रे । स्याद्भवप्रत्ययोऽप्येष, न क्षयोपशमं विना । अन्वयव्यतिरेकाभ्यां, हेतुत्वादस्य किन्त्विह ॥२॥ स्यात्क्षयोपशमे हेतु/वोऽयं तदसौ तथा । उपचाराद्धेतुहेतुरपि हेतुरिहोदितः ॥३॥ इत्यवधिज्ञानम् ॥
मनस्त्वेन परिणतद्रव्याणां यस्तु पर्यवः। परिच्छेदस्स हि मनःपर्यवज्ञानमुच्यते ॥४९॥ यद्वा-मनोद्रव्यस्य पर्याया, नानावस्थात्मका हिये । तेषां ज्ञानं खलु मनःपर्यायज्ञानमुच्यते ॥५०॥ स्यादृजुधीविपुलधीलक्षणखा
१ अलोकस्यैकप्रदेशेऽपि दृष्टे नैव प्रतिपातीत्येवमुक्तं । २ एतावान् सूत्रपाठः (१-२१)। ३ भवादिर्भाष्यपाठः ।
in Educatan
For Private & Personel Use Only
Magainelibrary.org